Kaushitaki Brahmana Upanishad

Complete Upanishad

Containing 53 sacred Sanskrit shlokas with multi-author commentaries and translations.

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 1

कौषीतकिब्राह्मणोपनिषत्

श्रीमत्कौषीतकीविद्यावेद्यप्रज्ञापराक्षरम् ।

प्रतियोगिविनिर्मुक्तब्रह्ममात्रं विचिन्तये ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता ।

मनो मे वाचि प्रतिष्ठितम् ।

आविरावीर्म एधि ।

वेदस्य मा आणीस्थः ।

श्रुतं मे मा प्रहासीः ।

अनेनाधीतेनाहोरात्रान्सन्दधामि ।

ऋतं वदिष्यामि ।

सत्यं वदिष्यामि ।

तन्मामवतु ।

तद्वक्तारमवतु ।

अवतु मामवतु वक्तारम् ॥

चित्रो ह वै गार्ग्यायणिर्यक्षमाण आरुणिं वव्रे स ह पुत्रं

श्वेतकेतुं प्रजिघाय याजयेति तं हासीनं पप्रच्छ

गौतमस्य पुत्रास्ते संवृतं लोके यस्मिन्माधास्यस्यन्यमहो

बद्ध्वा तस्य लोके धास्यसीति स होवाच नाहमेतद्वेद

हन्ताचार्यं प्रच्छानीति स ह पितरमासाद्य पप्रच्छेतीति

मा प्राक्षीत्कथं प्रतिब्रवाणीति स होवाचाहमप्येतन्न वेद

सदस्येव वयं स्वाध्यायमधीत्य हरामहे यन्नः परे

ददत्येह्युभौ गमिष्याव इति ॥

स ह समित्पाणिश्चित्रं

गार्ग्यायणिं प्रतिचक्रम उपायानीति तं होवाच ब्रह्मार्होसि

गौतम यो मामुपागा एहि त्वा ज्ञपयिष्यामीति

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 2

स होवाच ये वैके चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते

सर्वे गच्छन्ति तेषां प्राणैः पूर्वपक्ष

आप्यायतेऽथापरपक्षे न प्रजनयत्येतद्वै स्वर्गस्य लोकस्य

द्वारं यश्चन्द्रमास्तं यत्प्रत्याह तमतिसृजते य एनं

प्रत्याह तमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा

पतङ्गो वा शकुनिर्वा शार्दूलो वा सिंहो वा मत्स्यो वा

परश्वा वा पुरुषो वान्यो वैतेषु स्थानेषु प्रत्याजायते

यथाकर्मं यथाविद्यं तमागतं पृच्छति कोऽसीति तं

प्रतिब्रूयाद्विचक्षणादृतवो रेत आभृतं

पञ्चदशात्प्रसूतात्पित्र्यावतस्तन्मा पुंसि कर्तर्येरयध्वं

पुंसा कर्त्रा मातरि मासिषिक्तः स जायमान उपजायमानो

द्वादशत्रयोदश उपमासो द्वादशत्रयोदशेन पित्रा

सन्तद्विदेहं प्रतितद्विदेहं तन्म ऋतवो मर्त्यव आरभध्वं

तेन सत्येन तपसर्तुरस्म्यार्तवोऽस्मि कोऽसि त्वमस्मीति

तमतिसृजते

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 3

स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति स

वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स

प्रजापतिलोकं स ब्रह्मलोकं तस्य ह वा एतस्य

ब्रह्मलोकस्यारोहृदो मुहूर्ता येष्टिहा विरजा नदी तिल्यो

वृक्षः सायुज्यं संस्थानमपराजितमायतनमिन्द्रप्रजापती

द्वारगोपौ विभुं प्रमितं विचक्षणासन्ध्यमितौजाः प्रयङ्कः

प्रिया च मानसी प्रतिरूपा च चाक्षुषी

पुष्पाण्यादायावयतौ वै च

जगत्यम्बाश्चाम्बावयवाश्चाप्सरसोंऽबयानद्यस्तमित्थंविद

अ गच्छति तं ब्रह्माहाभिधावत मम यशसा विरजां

वायं नदीं प्रापन्नवानयं जिगीष्यतीति

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 4

तं पञ्चशतान्यप्सरसां प्रतिधावन्ति शतं मालाहस्ताः

शतमाञ्जनहस्ताः शतं चूर्णहस्ताः शतं वासोहस्ताः

शतं कणाहस्तास्तं ब्रह्मालङ्कारेणालङ्कुर्वन्ति स

ब्रह्मालङ्कारेणालङ्कृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति स

आगच्छत्यारं हृदं तन्मनसात्येति तमृत्वा सम्प्रतिविदो

मज्जन्ति स आगच्छति मुहूर्तान्येष्टिहांस्तेऽस्मादपद्रवन्ति

स आगच्छति विरजां नदीं तां मनसैवात्येति

तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयः

सुकृतमुपयन्त्यप्रिया दुष्कृतं तद्यथा रथेन

धावयन्रथचक्रे पर्यवेक्षत एवमहोरात्रे पर्यवेक्षत एवं

सुकृतदुष्कृते सर्वाणि च द्वन्द्वानि स एष विसुकृतो

विदुष्कृतो ब्रह्म विद्वान्ब्रह्मैवाभिप्रैति

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 5

स आगच्छति तिल्यं वृक्षं तं ब्रह्मगन्धः प्रविशति स

आगच्छति सायुज्यं संस्थानं तं ब्रह्म स प्रविशति

आगच्छत्यपराजितमायतनं तं ब्रह्मतेजः प्रविशति स

आगच्छतीन्द्रप्रजापती द्वारगोपौ तावस्मादपद्रवतः स

आगच्छति विभुप्रमितं तं ब्रह्मयशः प्रविशति स

आगच्छति विचक्षणामासन्दीं बृहद्रथन्तरे सामनी

पूर्वौ पादौ ध्यैत नौधसे चापरौ पादौ वैरूपवैराजे

शाक्वररैवते तिरश्ची सा प्रज्ञा प्रज्ञया हि विपश्यति स

आगच्छत्यमितौजसं पर्यङ्कं स प्राणस्तस्य भूतं च

भविष्यच्च पूर्वौ पादौ श्रीश्चेरा चापरौ

बृहद्रथन्तरे अनूच्ये भद्रयज्ञायज्ञीये

शीर्षण्यमृचश्च सामानि च प्राचीनातानं यजूंषि

तिरश्चीनानि सोमांशव उपस्तरणमुद्गीथ उपश्रीः

श्रीरुपबर्हणं तस्मिन्ब्रह्मास्ते तमित्थंवित्पादेनैवाग्र

आरोहति तं ब्रह्माह कोऽसीति तं प्रतिब्रूयात्

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 6

ऋतुरस्म्यार्तवोऽस्म्याकाशाद्योनेः सम्भूतो भार्यायै रेतः

संवत्सरस्य तेजोभूतस्य भूतस्यात्मभूतस्य त्वमात्मासि

यस्त्वमसि सोहमस्मीति तमाह कोऽहमस्मीति सत्यमिति ब्रूयात्किं

तद्यत्सत्यमिति यदन्यद्देवेभ्यश्च प्राणेभ्यश्च तत्सदथ

यद्देवाच्च प्राणाश्च तद्यं तदेतया वाचाभिव्याह्रियते

सत्यमित्येतावदिदं सर्वमिदं सर्वमसीत्येवैनं तदाह

तदेतच्छ्लोकेनाप्युक्तम्

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 7

यजूदरः सामशिरा असावृङ्मूर्तिरव्ययः ।

स ब्रह्मेति हि

विज्ञेय ऋषिर्ब्रह्ममयो महानिति ॥

तमाह केन पौंस्रानि नामान्याप्नोतीति प्राणेनेति ब्रूयात्केन

स्त्रीनामानीति वाचेति केन नपुंसकनामानीति मनसेति केन

गन्धानिति घ्राणेनेति ब्रूयात्केन रूपाणीति चक्षुषेति केन

शब्दानिति श्रोत्रेणेति केनान्नरसानिति जिह्वयेति केन कर्माणीति

हस्ताभ्यामिति केन सुखदुःखे इति शरीरेणेति केनानन्दं रतिं

प्रजापतिमित्युपस्थेनेति केनेत्या इति पादाभ्यामिति केन धियो

विज्ञातव्यं कामानिति प्रज्ञयेति प्रब्रूयात्तमहापो वै खलु

मे ह्यसावयं ते लोक इति सा या ब्रह्मणि चितिर्या व्यष्टिस्तां

चितिं जयति तां व्यष्टिं व्यश्नुते य एवं वेद य एवं वेद

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 8

प्रथमोऽध्यायः

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 9

प्राणो ब्रह्मेति ह स्माह कौषीतकिस्तस्य ह वा एतस्य प्राणस्य

ब्रह्मणो मनो दूतं वाक्परिवेष्ट्री चक्षुर्गात्रं श्रोत्रं

संश्रावयितृ यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं

वेद दूतवान्भवति यो वाचं परिवेष्ट्रीं

परिवेष्ट्रीमान्भवति तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः

सर्वा देवता अयाचमाना बलिं हरन्ति तथो एवास्मै सर्वाणि

भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद

तस्योपनिषन्न याचेदिति तद्यथा ग्रामं भिक्षित्वा

लब्धोपविशेन्नाहगतो दत्तमश्नीयामिति य एवैनं

पुरस्तात्प्रत्याचक्षीरंस्त एवैनमुपमन्त्रयन्ते ददाम त

इत्येष धर्मो याचतो भवत्यनन्तरस्तेवैनमुपमन्त्रयन्ते

ददाम त इति

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 10

अथात एकधनावरोधनं

यदेकधनमभिध्यायात्पौर्णमास्यां वामावास्यां वा

शुद्धपक्षे वा पुण्ये नक्षत्रेऽग्निमुपसमाधाय परिसमुह्य

परिस्तीर्य पर्युक्ष पूर्वदक्षिणं जान्वाच्य स्रुवेण वा

चमसेन वा कंसेन वैता आज्याहुतीर्जुहोति

वाङ्नामदेवतावरोधिनी सा मेऽमुष्मादिदमवरुन्द्धां तस्यै

स्वाहा चक्षुर्नाम देवतावरोधिनी सा

मेऽमुष्मादिदमवरुन्द्धां तस्यै स्वाहा श्रोत्रं नाम

देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्द्धां तस्यै स्वाहा

मनो नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्द्धां

तस्यै स्वाहैत्यथ धूमगन्धं

प्रजिघायाज्यलेपेनाङ्गान्यनुविमृज्य

वाचंयमोऽभिप्रवृज्यार्थं ब्रवीत दूतं वा

प्रहिणुयाल्लभते हैव

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 11

अथातो दैवस्मरो यस्य प्रियो बुभूषेयस्यै वा एषां

वैतेषमेवैतस्मिन्पर्वण्यग्निमुपसमाधायैतयैवावृतैता

जुहोम्यसौ स्वाहा चक्षुस्ते मयि जुहोम्यसौ स्वाहा प्रज्ञानं ते

मयि जुहोम्यसौ स्वाहेत्यथ धूमगन्धं

प्रजिघायाज्यलेपेनाङ्गान्यनुविमृज्य वाचंयमोऽभिप्रवृज्य

संस्पर्शं जिगमिषेदपि वाताद्वा

सम्भाषमाणस्तिष्ठेत्प्रियो हैव भवति स्मरन्ति हैवास्य

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 12

अथातः सायमन्नं प्रातर्दनमम्तरमग्निहोत्रमित्याचक्षते

यावद्वै

पुरुषो भासते न तावत्प्राणितुं शक्नोति प्राणं तदा वाचि

जुहोति

यावद्वै पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं

तदा प्राणे जुहोत्येतेऽनन्तेऽमृताहुतिर्जाग्रच्च स्वपंश्च

सन्ततमवच्छिन्नं जुहोत्यथ या अन्या आहुतयोऽन्तवत्यस्ताः

कर्ममय्योभवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं

जुहवांचक्रुः

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 13

उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गरस्तदृगित्युपासीत

सर्वाणि हास्मै भूतानि श्रैष्ठ्यायाभ्यर्च्यन्ते

तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानि श्रैष्ठ्याय

युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि

श्रैष्ठ्याय सन्नमन्ते तच्छ्रीत्युपासीत तद्यश

इत्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छा स्त्राणां

श्रीमत्तमं यशस्वितमं तेजस्वितमं भवति तथो एवैवं

विद्वान्सर्वेषां भूतानां श्रीमत्तमो यशस्वितमस्तेजस्वितमो

भवति तमेतमैष्टकं कर्ममयमात्मानमध्वर्युः संस्करोति

तस्मिन्यजुर्भयं प्रवयति यजुर्मयं ऋङ्मयं होता ऋङ्मयं

साममयमुद्गाता स एष सर्वस्यै त्रयीविद्याया आत्मैष उत

एवास्यात्यैतदात्मा भवति एवं वेद

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 14

अथातः सर्वजितः कौषीतकेस्रीण्युपासनानि भवन्ति

यज्ञोपवीतं कृत्वाप आचम्य त्रिरुदपात्रं

प्रसिच्योद्यन्तमादित्यमुपतिष्ठेत वर्गोऽसि पाप्मानं मे

वृङ्धीत्येतयैवावृता मध्ये सन्तमुद्वर्गोऽसि पाप्मानं म

उद्धृङ्धीत्येतयैवावृतास्ते यन्तं संवर्गोऽसि पाप्मानं

मे संवृङ्धीति यदहोरात्राभ्यां पापं करोति

सन्तद्धृङ्क्ते

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 15

अथ मासि मास्यमावास्यायां पश्चाच्चन्द्रमसं

दृश्यमानमुपतिष्ठेतैवावृता हरिततृणाभ्यामथ वाक्

प्रत्यस्यति यत्ते सुसीमं हृदयमधिचन्द्रमसि श्रितम् ॥

तेनामृतत्वस्येशानं माहं पौत्रमघं रुदमिति न

हास्मात्पूर्वाः प्रजाः प्रयन्तीति न

जातपुत्रस्याथाजातपुत्रस्याह ॥

आप्यास्व समेतु ते सन्ते

पयांसि समुयन्तु वाजा यमादित्या

अंशुमाप्याययन्तीत्येतास्तिस्र ऋचो जपित्वा नास्माकं प्राणेन

प्रजया पशुभिराप्यस्वेति दैवीमावृतमावर्त

आदित्यस्यावृतमन्वावर्तयति दक्षिणं बाहुमन्वावर्तते

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 16

अथ पौर्णमास्यां पुरस्ताच्चन्द्रमसं

दृश्यमानमुपतिष्ठेतैतयैवावृता सोमो राजासि

विचक्षणः पञ्चमुखोऽसि प्रजापतिर्ब्राह्मणस्त एकं मुखं

तेन मुखेन राज्ञोऽत्सि तेन मुखेन मामन्नादं कुरु ॥

राजा

त एकं मुखं तेन मुखेन विशोत्सि तेनैव मुखेन मामन्नादं

कुरु ॥

श्येनस्त एकं मुखं तेन मुखेन पक्षिणोऽत्सि तेन

मुखेन मामन्नादं कुरु ॥

अग्निस्त एकं मुखं तेन मुखेनेमं

लोकमत्सि तेन मुखेन मामन्नादं कुरु ॥

सर्वाणि भूतानीत्येव

पञ्चमं मुखं तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुखेन

मामन्नादं कुरु ॥

मास्माकं प्राणेन प्रजया

पशुभिरवक्षेष्ठा योऽस्माद्वेष्टि यं च वयं

द्विष्मस्तस्य प्राणेन प्रजया पशुभिरवक्षीयस्वेति

स्थितिर्दैवीमावृतमावर्त आदित्यस्यावृतमन्वावर्तन्त इति

दक्षिणं बाहुमन्वावर्तते

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 17

अथ संवेश्यन्जायायै हृदयमभिमृशेत् ॥

यत्ते सुसीमे

हृदये हितमन्तः प्रजापतौ ॥

मन्येऽहं मां तद्विद्वांसं

माहं पौत्रमघं रुदमिति न हास्मत्पूर्वाः प्रजाः प्रैति

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 18

अथ प्रोष्यान्पुत्रस्य मूर्धानमभिमृशति ॥

अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ।

आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥

असाविति

नामास्य गृह्णाति ।

अश्मा भव परशुर्भव हिरण्यमस्तृतं

भव ।

तेजो वै पुत्रनामासि स जीव शरदः शतम् ॥

असाविति

नामासि गृह्णाति ।

येन प्रजापतिः प्रजाः

पर्यगृह्णीतारिष्ट्यै तेन त्वा परिगृह्णाम्यसावित्यथास्य

दक्षिणे कर्णे जपति ॥

अस्मे प्रयन्धि

मघवन्नृजीषिन्नितीन्द्रश्रेष्ठानि द्रविणानि धेहीति

माच्छेत्ता मा व्यथिष्ठाः शतं शरद आयुषो जीव पुत्र

।

ते नाम्ना मूर्धानमभिजिघ्राम्यसाविति त्रिरस्य

मूर्धानमभिजिघ्रेद्गवा त्वा हिङ्कारेणाभिहिङ्करोमीति

त्रिरस्य मूर्धानमभिहिङ्कुर्यात्

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 19

अथातो दैवः परिमर एतद्वै ब्रह्म दीप्यते

यदग्निर्ज्वलत्यथैतन्म्रियते

यन्न ज्वलति तस्यादित्यमेव तेजो गच्छति वायुं प्राण एतद्वै

ब्रह्म

दीप्यते यथादित्यो दृश्यतेऽथैतन्म्रियते यन्न दृश्यते तस्य

चन्द्रमसमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते

यच्चन्द्रमा दृश्यतेऽथैतन्म्रियते यन्न दृश्यते तस्य

विद्युतमेव तेजो

गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते

यद्विद्युद्विद्योततेऽथैतन्म्रियते

यन्न विद्योतते तस्य वायुमेव तेजो गच्छति वायुं प्राणस्ता

वा एताः

सर्वा देवता वायुमेव प्रविश्य वायौ सृप्ता न मूर्च्छन्ते

तस्मादेव

पुनरुदीरत इत्यधिदैवतमथाध्यात्मम्

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 20

एतद्वै ब्रह्म दीप्यते यद्वाचा वदत्यथैतन्म्रियते यन्न वलति

तस्य चक्षुरेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म

दीप्यते

यच्चक्षुषा पश्यत्यथैतन्म्रियते यन्न पश्यति तस्य

श्रोत्रमेव

तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्छोत्रेण

श‍ृणोत्यथैतन्म्रियते यन्न श‍ृणोति तस्य मन एव तेजो

गच्छति

प्राणं प्राण एतद्वै ब्रह्म दीप्यते यन्मनसा

ध्यायत्यथैतन्म्रियते

यन्न ध्यायति तस्य प्राणमेव तेजो गच्छति प्राणं प्राणस्ता

वा

एताः सर्वा देवताः प्राणमेव प्रविश्य प्राणे सृप्ता न

मूर्छन्ते

तस्माद्धैव पुनरुदीरते तद्यदिह वा एवंविद्वांस उभौ

पर्वतावभिप्रवर्तेयातां तुस्तूर्षमाणो दक्षिणश्चोत्तरश्च

न हैवैनं स्तृण्वीयातामथ य एनं द्विषन्ति यांश्च

स्वयं

द्वेष्टि त एवं सर्वे परितो म्रियन्ते

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 21

अथातो निःश्रेयसादानं एता ह वै देवता अहं श्रेयसे

विवदमाना अस्माच्छरीरादुच्चक्रमुस्तद्दारुभूतं

शिष्येथैतद्वाक्प्रविवेश तद्वाचा वदच्छिष्य

एवाथैतच्चक्षुः प्रविवेश तद्वाचा वदच्चक्षुषा

पश्यच्छिष्य एवाथैतच्छ्रोत्रं प्रविवेश तद्वाचा

वदच्चक्षुषा पश्यच्छ्रोत्रेण श‍ृण्वन्मनसा

ध्यायच्छिष्य एवाथैतत्प्राणः प्रविवेश तत्तत एव

समुत्तस्थौ तद्देवाः प्राणे निःश्रेयसं विचिन्त्य प्राणमेव

प्रज्ञात्मानमभिसंस्तूय सहैतैः

सर्वैरस्माल्लोकादुच्चक्रमुस्ते

वायुप्रतिष्ठाकाशात्मानः स्वर्ययुस्तहो

एवैवंविद्वान्सर्वेषां

भूतानां प्राणमेव प्रज्ञात्मानमभिसंस्तूय सहैतैः

सर्वैरस्माच्छरीरादुत्क्रामति स वायुप्रतिष्ठाकाशात्मा

न स्वरेति तद्भवति यत्रैतद्देवास्तत्प्राप्य तदमृतो भवति

यदमृता देवाः

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 22

अथातः पितापुत्रीयं सम्प्रदानमिति चाचक्षते पिता पुत्रं

प्रष्याह्वयति नवैस्तृणैरगारं

संस्तीर्याग्निमुपसमाधायोदकुम्भं सपात्रमुपनिधायाहतेन

वाससा सम्प्रच्छन्नः श्येत एत्य पुत्र उपरिष्टदभिनिपद्यत

इन्द्रियैरस्येन्द्रियाणि संस्पृश्यापि वास्याभिमुखत

एवासीताथास्मै सम्प्रयच्छति वाचं मे त्वयि दधानीति पिता

वाचं ते मयि दध इति पुत्रः प्राणं मे त्वयि दधानीति पिता

प्राणं ते मयि दध इति पुत्रश्चक्षुर्मे त्वयि दधानीति पिता

चक्षुस्ते मयि दध इति पुत्रः श्रोत्रं मे त्वयि दधानीति पिता

श्रोत्रं ते मयि दध इति पुत्रो मनो मे त्वयि दधानीति पिता

मनस्ते मयि दध इति पुत्रोऽन्नरसान्मे त्वयि दधानीति

पितान्नरसांस्ते मयि दध इति पुत्रः कर्माणि मे त्वयि

दधानीति पिता कर्माणि ते मयि दध इति पुत्रः सुखदुःखे मे

त्वयि दधानीति पिता सुखदुःखे ते मयि दध इति पुत्र आनन्दं

रतिं प्रजाइं मे त्वयि दधानीति पिता आनन्दं रतिं प्रजातिं

ते

मयि दध इति पुत्र इत्यां मे त्वयि दधानीति पिता इत्यां ते मयि

दध इति पुत्रो धियो विज्ञातव्यं कामान्मे त्वयि दधानीति

पिउता

धियो विज्ञातव्यं कामांस्ते मयि दध इति पुत्रोऽथ

दक्षिणावृदुपनिष्क्रामति तं पितानुमन्त्रयते यशो

ब्रह्मवर्चसमन्नाद्यं कीर्तिस्त्वा जुषतामित्यथेतरः

सव्यमंसमन्ववेक्षते पाणि नान्तर्धाय वसनान्तेन वा

प्रच्छद्य स्वर्गाल्लोकान्कामानवाप्नुहीति स यद्यगदः

स्यात्पुत्रस्यैश्वर्ये पिता वसेत्परिवा व्रजेद्ययुर्वै

प्रेयाद्यदेवैनं

समापयति तथा समापयितव्यो भवति तथा समापयितव्यो

भवति

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 23

इति द्वितीयोऽध्यायः

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 24

प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन

पौरुषेण च तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति स

होवाच प्रतर्दनस्त्वमेव वृणीश्व यं त्वं मनुष्याय

हिततमं

मन्यस इति तं हेन्द्र उवाच न वै वरं परस्मै वृणीते

त्वमेव

वृणीश्वेत्यवरो वैतर्हि किल म इति होवाच प्रतर्दनोऽथो

खल्विन्द्रः

सत्यादेव नेयाय सत्यं हीन्द्रः स होवाच मामेव

विजानीह्येतदेवाहं

मनुष्याय हिततमं मन्ये यन्मां विजानीयां त्रिशीर्षाणं

त्वाष्ट्रमहनमवाङ्मुखान्यतीन्सालावृकेभ्यः प्रायच्छं

बह्वीः

सन्धा अतिक्रम्य दिवि प्रह्लादीनतृणमहमन्तरिक्षे

पौलोमान्पृथिव्यां कालकाश्यांस्तस्य मे तत्र न लोम च

नामीयते

स यो मां विजानीयान्नास्य केन च कर्मणा लोको मीयते न

मातृवधेन

न पितृवधेन न स्तेयेन न भ्रूणहत्यया नास्य पापं च न

चकृषो मुखान्नीलं वेत्तीति

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 25

स होवाच प्राणोऽस्मि प्रज्ञात्मा तं

मामायुरमृतमित्युपास्वायुः

प्राणः प्राणो वा आयुः प्राण उवाचामृतं

यावद्ध्यस्मि`न्छरीरे

प्राणो वसति तावदायुः प्राणेन

ह्येवामुष्मिंल्लोकेऽमृतत्वमाप्नोति

प्रज्ञया सत्यसङ्कल्पं स यो म आयुरमृतमित्युपास्ते

सर्वमायुरस्मिंल्लोक एवाप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके

तद्धैक

आहुरेकभूयं वै प्राणा गच्छन्तीति न हि कश्चन

शक्नुयात्सकृद्वाचा नाम प्रज्ञापयितुं चक्षुषा रूपं

श्रोत्रेण शब्दं मनसा ध्यानमित्येकभूयं वै प्राणा भूत्वा

एकैकं सर्वाण्येवैतानि प्रज्ञापयन्ति वाचं वदतीं सर्वे

प्राणा

अनुवदन्ति चक्षुः पश्यत्सर्वे प्राणा अनुपश्यन्ति श्रोत्रं

श‍ृण्वत्सर्वे प्राणा अनुश‍ृण्वन्ति मनो ध्यायत्सर्वे प्राणा

अनुध्यायन्ति प्राणं प्राणन्तं सर्वे प्राणा

अनुप्राणन्तीत्येवमुहैवैतदिति हेन्द्र उवाचास्तीत्येव प्राणानां

निःश्रेयसादानमिति

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 26

जीवति वागपेतो मूकान्विपश्यामो जीवति

चक्षुरपेतोऽन्धान्विपश्यामो

जीवति श्रोत्रापेतो बधिरान्विपश्यामो जीवतो बाहुच्छिन्नो

जीवत्यूरुच्छिन्न इत्येवं हि पश्याम इत्यथ खलु प्राण एव

प्रज्ञात्मेदं शरीरं परिगृह्योत्यापयति

तस्मादेतमेवोक्थमुपासीत

यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सह

ह्येतावस्मिञ्छरीरे वसतः सहोत्क्रामतस्तस्यैषैव

दृष्टिरेतद्विज्ञानं यत्रैतत्पुरुषः सुप्तः स्वप्नं न

कञ्चन

पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं

वाक्सर्वैर्नामभिः

सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः

शब्दैः

सहाप्येति मनः सर्वैर्ध्यातैः सहाप्येति स यदा प्रतिबुध्यते

यथाग्नेर्ज्वलतो विस्फुलिङ्गा

विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः

प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो

लोकास्तस्यैषैव सिद्धिरेतद्विज्ञानं यत्रैतत्पुरुष आर्तो

मरिष्यन्नाबल्य न्येत्य मोहं नैति तदाहुरुदक्रमीच्चित्तं न

श‍ृणोति न पश्यति वाचा वदत्यथास्मिन्प्राण एवैकधा भवति

तदैनं वाव सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः

सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः

सर्वैर्ध्यातैः

सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतो विस्फुलिङ्गा

विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं

विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 27

स यदास्माच्छरीरादुत्क्रामति वागस्मात्सर्वाणि

नामान्यभिविसृजते वाचा सर्वाणि नामान्याप्नोति

प्राणोऽस्मात्सर्वान्गन्धानभिविसृजते प्राणेन

सर्वान्गन्धानाप्नोति चक्षुरस्मात्सर्वाणि रूपाण्यभिविसृजते

चक्षुषा सर्वाणि रूपाण्याप्नोति

श्रोत्रमस्मात्सर्वाञ्छब्दानभिविसृजते श्रोत्रेण

सर्वाञ्छब्दानाप्नोति मनोऽस्मात्सर्वाणि ध्यातान्यभिविसृजते

मनसा सर्वाणि ध्यातान्याप्नोति सैषा प्राणे सर्वाप्तिर्यो वै

प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः स ह

ह्येतावस्मिञ्छरीरे वसतः सहत्क्रामतोऽथ खलु यथा

प्रज्ञायां सर्वाणि भूतान्येकी भवन्ति तद्व्याख्यास्यामः

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 28

वागेवास्मा एकमङ्गमुदूढं तस्यै नाम परस्तात्प्रतिविहिता

भूतमात्रा घ्राणमेवास्या एकमङ्गमुदूढं तस्य गन्धः

परस्तात्प्रतिविहिता भूतमात्रा चक्षुरेवास्या

एकमङ्गमुदूढं

तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्या

एकमङ्गमुदूढं तस्य शब्दः परस्तात्प्रतिविहिता भूतमात्रा

जिह्वैवास्या एकमङ्गमुदूढं तस्यान्नरसः परस्तात्प्रतिविहिता

भूतमात्रा हस्तावेवास्या एकमङ्गमुदूढं तयोः कर्म

परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या

एकमङ्गमुदूढं

तस्य सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रा उपस्थ एवास्या

एकमङ्गमुदूढं तस्यानन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता

भूतमात्रा पादावेवास्या एकमङ्गमुदूढं तयोरित्या

परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञैवास्या

एकमङ्गमुदूढं

तस्यै धियो विज्ञातव्यं कामाः परस्तात्प्रतिविहिता

भूतमात्रा

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 29

प्रज्ञया वाचं समारुह्य वाचा सर्वाणि सामान्याप्नोति

प्रज्ञया प्राणं समारुह्य प्राणेन सर्वान्गन्धानाप्नोति

प्रज्ञया चक्षुः समारुह्य सर्वाणि रूपाण्याप्नोति प्रज्ञया

श्रोत्रं समारुह्य श्रोत्रेण सर्वाञ्छब्दानाप्नोति प्रज्ञया

जिह्वां समारुह्य जिह्वाया सर्वानन्नरसानाप्नोति प्रज्ञया

हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति प्रज्ञया

शरीरं समारुह्य शरीरेण सुखदुःखे आप्नोति प्रज्ञयोपस्थं

समारुह्योपस्थेनानन्दं रतिं प्रजातिमाप्नोति प्रज्ञया पादौ

समारुह्य पादाभ्यां सर्वा इत्या आप्नोति प्रज्ञयैव धियं

समारुह्य प्रज्ञयैव धियो विज्ञातव्यं कामानाप्नोति

Kaushitaki Brahmana Upanishad

Complete Upanishad, Verse 30

न हि प्रज्ञापेता वाङ्नाम किंचन प्रज्ञपयेदन्यत्र मे

मनोऽभूदित्याह नाहमेतन्नाम प्राज्ञासिषमिति न हि

प्रज्ञापेतः प्राणो गन्धं कंचन प्रज्ञपयेदन्यत्र मे

मनोऽभूदित्याह नाहमेतं गन्धं प्राज्ञासिषमिति नहि

प्रज्ञापेतं चक्षू रूपं किंचन प्रज्ञपयेदन्यत्र मे

मनोऽभूदित्याह नाहमेतद्रूपं प्राज्ञासिषमिति नहि

प्रज्ञापेतं श्रोत्रं शब्दं कंचन प्रज्ञपयेदन्यत्र मे

मनोऽभूदित्याह नाहमेतं शब्दं प्राज्ञासिषमिति नहि

प्रज्ञापेता जिह्वान्नरसं कंचन प्रज्ञपयेदन्यत्र मे

मनोऽभूदित्याह नाहमेतमन्नरसं प्राज्ञासिषमिति नहि

प्रज्ञापेतौ हतौ कर्म किंचन प्रज्ञपेतामन्यत्र मे

मनोऽभूदित्याह नाहमेतत्कर्म प्राज्ञासिषमिति नहि

प्रज्ञापेतं शरीरं सुखदुःखं किंचन प्रज्ञपयेदन्यत्र

मे मनोऽभूदित्याह नाहमेतत्सुखदुःखं प्राज्ञासिषमिति

नहि प्रज्ञापेत उपस्थ आनन्दं रतिं प्रजातिं कंचन

प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतमानन्दं रतिं

प्रजातिं प्राज्ञासिषमिति नहि प्रज्ञापेतौ पादावित्यां

कांचन प्रज्ञपयेतामन्यत्र मे मनोऽभूदित्याह

नाहमेतामित्यां

प्राज्ञसिषमिति नहि प्रज्ञापेता धीः काचन सिद्ध्येन्न

प्रज्ञातव्यं प्रज्ञायेत्