Kali Santarana Upanishad

Complete Upanishad

Containing 3 sacred Sanskrit shlokas with multi-author commentaries and translations.

Kali Santarana Upanishad

Complete Upanishad, Verse 1

कलिसन्तरणोपनिषत्

(कृष्णयजुर्वेदीया)

ॐ सह नाववतु ।

सह नौ भुनक्तु ।

सह वीर्यङ्करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ।

ॐ शान्तिः शान्तिः शान्तिः ।

(भगवन्नामस्मरणमात्रेण कलिसन्तरणम्)

हरिः ॐ ।

द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां

पर्यटन् कलिं सन्तरेयमिति ।

स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं

तच्छृणु येन कलिसंसारं तरिष्यसि ।

भगवत आदिपुरुषस्य नारायनस्य नामोच्चारणमात्रेण

निर्धृतकलिर्भवतीति

Kali Santarana Upanishad

Complete Upanishad, Verse 2

(परब्रह्मावरणविनाशकषोडशनामानि)

नारदः पुनः पप्रच्छ तन्नाम किमिति ।

स होवाच हिरण्यगर्भः ।

हरे राम हरे राम राम राम हरे हरे ।

हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥

इति षोडशकं नाम्नां कलिकल्मषनाशनम् ।

नातः परतरोपायः सर्ववेदेषु दृश्यते ॥

षोडशकलावृतस्य जीवस्यावरणविनाशनम् ।

ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति

Kali Santarana Upanishad

Complete Upanishad, Verse 3

(नामजपमहिमा)

पुनर्नारदः पप्रच्छ भगवन् कोऽस्य विधिरिति ।

तं होवाच नास्य विधिरिति ।

सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां

सरूपतां सायुज्यमेति ।

यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति ।

तरति वीरहत्याम् ।

स्वर्णस्तेयात् पूतो भवति ।

वृषलीगमनात् पूतो भवति ।

पितृदेवमनुष्याणामपकारात् पूतो भवति ।

सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् ।

सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत्