Kaivalya Upanishad

Complete Upanishad

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Kaivalya Upanishad

Complete Upanishad, Verse 1

कैवल्योपनिषत्

कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् ।

कैवल्यगिरिजारामं स्वमात्रं कलयेऽन्वहम् ॥

ॐ सहनाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु ।

मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसमेत्योवाच ।

अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् ।

यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान्

Kaivalya Upanishad

Complete Upanishad, Verse 2

तस्मै स होवाच पितामहश्च श्रद्धाभक्तिध्यानयोगादवैहि

Kaivalya Upanishad

Complete Upanishad, Verse 3

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।

परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति

Kaivalya Upanishad

Complete Upanishad, Verse 4

वेदान्तविज्ञानसुनिश्र्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।

ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे

Kaivalya Upanishad

Complete Upanishad, Verse 5

विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः ।

अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य

Kaivalya Upanishad

Complete Upanishad, Verse 6

हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ।

अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम्

Kaivalya Upanishad

Complete Upanishad, Verse 7

उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।

ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात्

Kaivalya Upanishad

Complete Upanishad, Verse 8

स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ।

स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः

Kaivalya Upanishad

Complete Upanishad, Verse 9

स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ।

ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये

Kaivalya Upanishad

Complete Upanishad, Verse 10

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।

सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना

Kaivalya Upanishad

Complete Upanishad, Verse 11

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।

स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् ।

स्त्र्यन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति

Kaivalya Upanishad

Complete Upanishad, Verse 12

स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके ।

सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति

Kaivalya Upanishad

Complete Upanishad, Verse 13

पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ।

पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ।

आधारमानन्दमखण्डबोधं यस्मिँल्लयं याति पुरत्रयं च

Kaivalya Upanishad

Complete Upanishad, Verse 14

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।

खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी

Kaivalya Upanishad

Complete Upanishad, Verse 15

यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।

सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत्

Kaivalya Upanishad

Complete Upanishad, Verse 16

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।

तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते

Kaivalya Upanishad

Complete Upanishad, Verse 17

त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।

तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः

Kaivalya Upanishad

Complete Upanishad, Verse 18

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।

मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम्

Kaivalya Upanishad

Complete Upanishad, Verse 19

॥

प्रथमः खण्डः

Kaivalya Upanishad

Complete Upanishad, Verse 20

अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् ।

पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि

Kaivalya Upanishad

Complete Upanishad, Verse 21

अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स श‍ृणोम्यकर्णः ।

अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् ॥

२१

वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।

न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति

Kaivalya Upanishad

Complete Upanishad, Verse 22

न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च ।

एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥

२३

समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥

यः शतरुद्रियमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति

स ब्रह्महत्यायाः पूतो भवति स सुवर्णस्तेयात्पूतो भवति

स कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो

भवत्यत्याश्रमी सर्वदा सकृद्वा जपेत् ॥

अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् ।

तस्मादेवं

विदित्वैनं कैवल्यं पदमश्नुते कैवल्यं पदमश्नुत इति

Kaivalya Upanishad

Complete Upanishad, Verse 23

द्वितीयः खण्डः