Complete Upanishad, Verse 1
जाबालोपनिषत्
जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् ।
वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं
देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
भूतानां ब्रह्मसदनम् ।
तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव ।
इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
भूतानां ब्रह्मसदनम् ॥
अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म
व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति
तस्मादविमुक्तमेव निषेवेत अविमुक्तं न
विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः