Isha Upanishad

Isha Upanishad

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Isha Upanishad

Isha Upanishad, Verse 1

ईशोपनिषत्

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

॥

अथ ईशोपनिषत् ॥

ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् ।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्

Isha Upanishad

Isha Upanishad, Verse 2

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः ।

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे

Isha Upanishad

Isha Upanishad, Verse 3

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।

ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः

Isha Upanishad

Isha Upanishad, Verse 4

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।

तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति

Isha Upanishad

Isha Upanishad, Verse 5

तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।

तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः

Isha Upanishad

Isha Upanishad, Verse 6

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।

सर्वभूतेषु चात्मानं ततो न विजुगुप्सते

Isha Upanishad

Isha Upanishad, Verse 7

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।

तत्र को मोहः कः शोक एकत्वमनुपश्यतः

Isha Upanishad

Isha Upanishad, Verse 8

स पर्यगाच्छुक्रमकायमव्रण-

मस्नाविरꣳ शुद्धमपापविद्धम् ।

कविर्मनीषी परिभूः स्वयम्भू-

र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः

Isha Upanishad

Isha Upanishad, Verse 9

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।

ततो भूय इव ते तमो य उ विद्यायाꣳ रताः

Isha Upanishad

Isha Upanishad, Verse 10

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे

Isha Upanishad

Isha Upanishad, Verse 11

विद्यां चाविद्यां च यस्तद्वेदोभयꣳ सह ।

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते

Isha Upanishad

Isha Upanishad, Verse 12

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।

ततो भूय इव ते तमो य उ सम्भूत्याꣳ रताः

Isha Upanishad

Isha Upanishad, Verse 13

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे

Isha Upanishad

Isha Upanishad, Verse 14

सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳ सह ।

विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते

Isha Upanishad

Isha Upanishad, Verse 15

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये

Isha Upanishad

Isha Upanishad, Verse 16

पूषन्नेकर्षे यम सूर्य प्राजापत्य

व्यूह रश्मीन् समूह तेजः ।

यत्ते रूपं कल्याणतमं तत्ते पश्यामि

योऽसावसौ पुरुषः सोऽहमस्मि

Isha Upanishad

Isha Upanishad, Verse 17

वायुरनिलममृतमथेदं भस्मान्तꣳ शरीरम् ।

ॐ क्रतो स्मर कृतꣳ स्मर क्रतो स्मर कृतꣳ स्मर

Isha Upanishad

Isha Upanishad, Verse 18

अग्ने नय सुपथा राये अस्मान्

विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो

भूयिष्ठां ते नमौक्तिं विधेम

Isha Upanishad

Isha Upanishad, Verse 19

॥

इति ईशोपनिषत् ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥