Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने

Containing 99 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 1

जरासंधपराभवः Jarasandha Defeated श्रीकृष्णबलरामाभ्यां जरासन्धेन तस्य सेनया सह युद्धं, राजा दरदस्य मृत्युः, जरासन्धस्य पराजितं भूत्वा पलायनं एवं चेदिराज दमघोषेण सह श्रीकृष्णबलरामाभ्यां करवीरपुरे गमनं वैशम्पायन उवाच ।

तौ नगादाप्लुतौ दृष्ट्वा वसुदेवसुतावुभौ ।

क्षुब्धं नरवरानीकं सर्वं सम्मूढवाहनम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 2

बाहुप्रहरणौ तौ तु चेरतुस्तत्र यादवौ ।

मकराविव संरब्धौ समुद्रक्षोभणावुभौ ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 3

ताभ्यां मृधे प्रविष्टाभ्यां यादवाभ्यां मतिस्त्वभूत् ।

आयुधानां पुराणानामादानकृतलक्षणा ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 4

ततोऽम्बरतलाद् भूयः पतन्ति स्म महात्मनोः ।

मध्ये राजसहस्रस्य समरं प्रतिकाङ्क्षिणोः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 5

यानि वै माथुरे युद्धे प्राप्तान्याहवशोभिनोः ।

तान्यम्बरात् पतन्ति स्म दिव्यान्याहवसम्प्लवे ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 6

लेलिहानानि दीप्तानि दीप्ताग्निसदृशानि वै ।

निक्षिप्य यानि तत्रैव तानि प्राप्तौ स्म यादवौ ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 7

क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च ।

तृषितान्याहवे भोक्तुं नृपमांसानि सर्वशः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 8

दिव्यस्रग्दामधारीणि त्रासयन्ति च खेचरान् ।

प्रभया भासमानानि दंशितानि दिशो दश ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 9

हलं सांवर्तकं नाम सौनन्दं मुसलं तथा ।

चक्रं सुदर्शनं नाम गदां कौमोदकीं तथा ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 10

चत्वार्येतानि तेजांसि विष्णुप्रहरणानि वै ।

ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे ॥ २.४३.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 11

जग्राह प्रथमं रामो ललामप्रतिमं रणे ।

सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं हलम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 12

सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ।

सौनन्दं नाम बलवान् निरानन्दकरं द्विषाम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 13

दर्शनीयं च लोकेषु चक्रमादित्यवर्चसम् ।

नाम्ना सुदर्शनं नाम प्रीतो जग्राह केशवः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 14

दर्शनीयं च लोकेषु धनुर्जलदनिःस्वनम् ॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 14

नाम्ना शार्ङ्गमिति ख्यातं प्रीतो जग्राह वीर्यवान् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 15

देवैर्निगदितार्थस्य गदा तस्यापरे करे ।

निषक्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 16

तौ सप्रहरणौ वीरौ साक्षाद्विष्णुतनूपमौ ।

समरे रामगोविन्दौ रिपूंस्तान् प्रत्ययुद्ध्यताम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 17

आयुधप्रग्रहौ वीरौ तावन्योन्यमयावुभौ ।

पूर्वजानुजसंज्ञौ तु रामगोविन्दलक्षणौ ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 18

समरेऽप्रतिरूपौ तौ विष्णुरेको द्विधा कृतः ।

द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 19

हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपनम् ।

चचार समरे वीरो द्विषतामन्तकोपमः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 20

विकर्षन् रथवृन्दानि क्षत्रियाणां महात्मनाम् ।

चकार रोषं सफलं नागेषु च हयेषु च ॥ २.४३.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 21

कुञ्जराँल्लाङ्गलोत्क्षिप्तान् मुसलाक्षेपताडितान् ।

रामोऽभिरामः समरे निर्ममन्थ यथाचलान् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 22

ते वध्यमाना रामेण समरे क्षत्रियर्षभाः ।

जरासन्धान्तिकं भीता विरथाः प्रतिजग्मिरे ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 23

तानुवाच जरासन्धः क्षत्रधर्मे व्यवस्थितः ।

धिगेतां क्षत्रवृत्तिं वः समरे कातरात्मनाम् ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 24

पराक्रान्तस्य समरे विरथस्य पलायतः ।

भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 25

पत्तिनो भुवि चैकस्य गोपस्याल्पबलीयसः ।

भीताः किं विनिवर्तध्वं धिगेतां क्षत्रवृत्तिताम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 26

क्षिप्रं समभिवर्तन्तां मम वाक्येन नोदिताः ।

यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम् ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 27

ततस्ते क्षत्रियाः सर्वे जरासन्धेन नोदिताः ।

क्षिपन्तः शरजालानि हृष्टा योद्धुमुपस्थिताः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 28

ते हयैः काञ्चनापीडै रथैश्चेन्दुसमप्रभैः ।

नागैश्चाम्भोदसङ्काशैर्महामात्रप्रणोदितैः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: करवीरपुराभिगमने, Verse 29

सतनुत्राणनिस्त्रिंशाः सायुधाभरणाम्बराः ।

स्वारोपितधनुष्मन्तः सतूणीराः ससायकाः ॥ २९॥