हरिवंशपर्व, अध्याय 42: गोमन्तदाहे, Verse 1
गोमन्तदाहः Gomanta set on fire by jarasandha's army जरासन्धस्य सेनायाः वर्णनम्, तस्य सैन्यं पर्वतोपरि आक्रमणाय आज्ञापनम्, शिशुपालस्य सम्मत्या गोमन्तके पर्वते अग्निदानम्, पर्वतस्य ज्वलनं एवं बलरामकृष्णयोः पर्वतात्कूर्दयित्वा राजानां सैन्येषु आगमनं वैशम्पायन उवाच ।
जरासन्धस्ततः प्राप्तो नृपः सर्वमहीक्षिताम् ।
नराधिपैर्बलयुतैरनुयातो महाद्युतिः ॥ १॥