हरिवंशपर्व, अध्याय 41: जरासन्धाभिगमनं, Verse 1
जरासंधाभिगमनम् Arrival of jarAsaMdha's army बलरामस्य समीपे वारुणी, कान्ति एवं श्री संज्ञकानां देवाङ्गनानां आगमनम्, गरुडेन श्रीकृष्णं वैष्णवमुकुटस्य प्राप्तिः, श्रीकृष्णस्य बलरामेण सह वार्तालापं एवं जरासन्धस्य सेनायाः निरीक्षणं कृत्वा स्वयमुद्भूतानां मानसिकोद्गाराणां प्रकटनं वैशम्पायन उवाच ।
जामदग्न्ये गते रामे तौ यादवकुलोद्वहौ ।
गोमन्तशिखरे रम्ये चेरतुः कामरूपिणौ ॥ १॥