Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये

Containing 83 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 1

जामदग्न्येन रामकृष्णयोः सङ्गतिः Krishna and Balarama meet Parasurama पुर्याः पुरवासिनां च रक्षणाय बलरामकृष्णयोः मथुरातः दक्षिणभारतं प्रति प्रस्थानम्, परशुरामस्य दर्शनम्, तेन गोमन्तपर्वतोपरि गमनाय ताभ्यां मन्त्रणं वैशम्पायन उवाच ।

विकद्रोस्तु वचः श्रुत्वा वसुदवो महायशाः ।

परितुष्टेन मनसा वचनं चेदमब्रवीत् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 2

राजा षाड्गुण्यवक्ता वै राजा मन्त्रार्थतत्त्ववित् ।

सतत्त्वं च हितं चैव कृष्णोक्तं किल धीमता ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 3

भाषिता राजधर्माश्च सत्याश्च जगतो हिताः ।

विक्रद्रुणा यदुश्रेष्ठ यद्धितं तद् विधीयताम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 4

एतच्छ्रुत्वा पितुर्वाक्यं विक्रद्रोश्च महात्मनः ।

वाक्यमुत्तममेकाग्रो बभाषे पुरुषोत्तमः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 5

ब्रुवतां वः श्रुतं वाक्यं हेतुतः क्रमतस्तथा ।

न्यायतः शास्त्रतश्चैव दैवं चैवानुपश्यताम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 6

श्रूयतामुत्तरं वाक्यं श्रुत्वा च परिगृह्यताम् ।

नयेन व्यवहर्तव्यं पार्थिवेन यथाक्रमम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 7

सन्धिं च विग्रहं चैव यानमासनमेव च ।

द्वैधीभावं संश्रयं च षाड्गुण्यं चिन्तयेत् सदा ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 8

बलिनः सन्निकृष्टे तु न स्थेयं पण्डितेन वै ।

अपक्रमेद्धि कालज्ञः समर्थो युद्धमुद्वहेत् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 9

अहं तावत् सहार्येण मुहूर्तेऽस्मिन् प्रकाशिते ।

जीवितार्थे गमिष्यामि शक्तिमानप्यशक्तवत् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 10

ततः सह्याचलयुतं सहार्येणाहमक्षयम् ।

आत्मद्वितीयः श्रीमन्तं प्रवेक्ष्ये दक्षिणापथम् ॥ २.३९.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 11

करवीरपुरं चैव रम्यं क्रौञ्चपुरं तथा ।

द्रक्ष्यावस्तत्र सहितौ गोमन्तं च नगोत्तमम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 12

आवयोर्गमनं श्रुत्वा जितकाशी स पार्थिवः ।

अप्रविश्य पुरीं दर्पादनुसारं करिष्यति ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 13

ततः सह्यवनेष्वेव राजा याति स सानुगः ।

आवयोर्ग्रहणे चैव नृपतिः प्रयतिष्यति ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 14

एषा नः श्रेयसी यात्रा भविष्यति कुलस्य वै ।

पौराणामथ पुर्याश्च देशस्य च सुखावहा ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 15

न च शत्रोः परिभ्रष्टा राजानो विजिगीषवः ।

परराष्ट्रेषु मृष्यन्ति मृधे शत्रोः क्षयं विना ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 16

एवमुक्त्वा तु तौ वीरौ कृष्णसङ्कर्षणावुभौ ।

प्रपेदतुरसम्भ्रान्तौ दक्षिणौ दक्षिणापथम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 17

तौ तु राष्ट्राणि शतशश्चरन्तौ कामरूपिणौ ।

दक्षिणां दिशमास्थाय चेरतुर्मार्गगौ सुखम् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 18

सह्यपृष्ठेषु रम्येषु मोदमानावुभौ तथा ।

दक्षिणापथगौ वीरावध्वानं सम्प्रपेदतुः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 19

तौ च स्वल्पेन कालेन सह्याचलविभूषितम् ।

करवीरपुरं प्राप्तौ स्ववंशेन विभूषितम् ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 20

तौ तत्र गत्वा वेणाया नद्यास्तीरान्तमाश्रितम् ।

आसेदतुः प्ररोहाढ्यं न्यग्रोधं तरुपुङ्गवम् ॥ २.३९.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 21

अधस्तात् तस्य वृक्षस्य मुनिं दीप्ततपोधनम् ।

अंसावसक्तपरशुं जटावल्कलधारिणम् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 22

गौरमग्निशिखाकारं तेजसा भास्करोपमम् ।

क्षत्रान्तकरमक्षोभ्यं वपुष्मन्तमिवार्णवम् ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 23

न्यस्तसङ्कुचिताधानं काले हुतहुताशनम् ।

क्लिन्नं त्रिषवणाम्भोभिराद्यं देवगुरुं यथा ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 24

सवत्सां धेनुकां श्वेतां होमधुक् कामदोहनाम् ।

क्षीरारणिं कर्षमाणं महेन्द्रगिरिगोचरम् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 25

ददृशतुस्तौ सहितावपरिश्रान्तमव्ययम् ।

भार्गवं राममासीनं मन्दरस्थं यथा रविम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 26

न्यायतस्तौ तु तं दृष्ट्वा पादमूले कृताञ्जली ।

वसुदेवसुतौ वीरौ सधिष्ण्याविव पावकौ ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 27

कृष्णस्तमृषिशार्दूलमुवाच वदतां वरः ।

श्लक्ष्णं मधुरया वाचा लोकवृत्तान्तकोविदः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 28

भगवन् जामदग्न्यं त्वामवगच्छामि भार्गवम् ।

रामं मुनीनामृषभं क्षत्रियाणां कुलान्तकम् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 29

त्वया सायकवेगेन क्षिप्तो भार्गव सागरः ।

इषुपातेन नगरं कृतं शूर्पारकं त्वया ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: रामवाक्ये, Verse 30

धनुःपञ्चशतायाममिषुपञ्चशतोच्छ्रयम् ।

सह्यस्य च निकुञ्जेषु स्फीतो जनपदो महान् ॥ २.३९.३०॥