हरिवंशपर्व, अध्याय 38: विकद्रुवाक्यं, Verse 1
यादवोत्पत्तिः तेषां पराक्रमादि च Emergence of the Yadavas and their Feats विकद्रुणा यदोः सन्ततिवर्णनम्, जरासन्धस्य आक्रमणानि सोढुं मथुरापुरी न समर्था इति कथनं वैशम्पायन उवाच ।
स तासु नागकन्यासु कालेन महता नृपः ।
जनयामास विक्रान्तान् पञ्च पुत्रान् कुलोद्वहान् ॥ १॥