हरिवंशपर्व, अध्याय 37: विकद्रुवाक्यं, Verse 1
हर्यश्वराजकथा यदोरुत्पत्तिश्च The story of king haryashva, and the birth of yadu जरासन्धस्य पुनराक्रमणात् शङ्कितानां यादवानां सभायां विकद्रोः भाषणं - राज्ञः हर्यश्वस्य चरित्रं, तस्मात् यदोः एवं यादवानां उत्पत्तेः वर्णनं वैशम्पायन उवाच ।
स कृष्णस्तत्र बलवान् रौहिणेयेन सङ्गतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥ १॥