हरिवंशपर्व, अध्याय 36: जरासन्धापयानं, Verse 1
जरासंधपयानम् JarAsaMdha retires from battlefield वृष्णिवंश्यानां जरासन्धस्य सैनिकेभिः सह युद्धं, बलरामस्य जरासन्धेन सह गदायुद्धं, पराजितस्य जरासन्धस्य पलायनं वैशम्पायन उवाच ।
ततो युद्धानि वृष्णीनां बभूवुः सुमहान्त्यथ ।
मागधस्य महामात्रैर्नृपैश्चैवानुयायिभिः ॥ १॥