Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने

Containing 111 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 1

यादवमागधयुद्धम् The yAdava-mAgadha Battle जरासन्धस्य सेनयोः वर्णनम्, तस्य चतुर्भ्यः दिग्भ्यः मथुरापुर्यामुपरि आक्रमणस्य योजना, यादवेभिः सह जरासन्धस्य सेनयोः युद्धम्, श्रीकृष्णबलरामयोः पराक्रमेण तस्य सेनयोः पलायनम्, जरासन्धेन स्वसैनिकेभ्यः प्रोत्साहनं, उभयोः पक्षयोः वीराणां घमासान युद्धम् ।

वैशम्पायन उवाच ।

मथुरोपवने गत्वा निविष्टांस्तान् नराधिपान् ।

अपश्यन् वृष्णयः सर्वे पुरस्कृत्य जनार्दनम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 2

ततो हृष्टमनाः कृष्णो रामं वचनमब्रवीत् ।

त्वरते खलु कार्यार्थो देवतानां न संशयः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 3

यथायं सन्निकृष्टो हि जरासन्धो नराधिपः ।

लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 4

एतानि शशिकल्पानि नृपाणां विजिगीषताम् ।

छत्राण्यार्य विराजन्ते प्रोच्छ्रितानि सितानि च ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 5

अहो नृपरथोदग्रा विमलाश्छत्रपङ्क्तयः ।

अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 6

नृपः प्राप्तो जरासन्धो महीपतिः ।

आवयोर्युद्धनिकषः प्रथमः समरातिथिः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 7

आर्य तिष्ठाव सहितावनुप्राप्ते महीपतौ ।

युद्धारम्भः प्रयोक्तव्यो बलं तावद्विमृश्यताम् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 8

एवमुक्त्वा ततः कृष्णः स्वस्थः सङ्ग्रामलालसः ।

जरासन्धबलं प्रेप्सुश्चकार बलदर्शनम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 9

वीक्षमाणश्च तान् सर्वान् नृपान् यदुवरोऽव्ययः ।

आत्मनैवात्मनो वाक्यमुवाच हृदि मन्त्रवित् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 10

इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः ।

ये विनाशं गमिष्यन्ति शास्त्रदृष्टेन कर्मणा ॥ २.३५.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 11

प्रोक्षितान् खल्विमान्मन्ये मृत्युना नृपपुङ्गवान् ।

स्वर्गगामीनि चाप्येषां वपूंषि प्रचकाशिरे ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 12

स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता ।

एषां नृपाणां मुख्यानां बलौघैरभिपीडिता ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 13

मही निरन्तरा चेयं बलराष्ट्राभिसंवृता ।

स्वल्पेन खलु कालेन विविक्तं पृथिवीतलम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 14

भविष्यति नरेन्द्रौघैः शतशो विनिपातितैः ।

वैशम्पायन उवाच ।

जरासन्धस्ततः क्रुद्धः प्रभुः सर्वमहीक्षिताम् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 15

नराधिपसहस्रौघैरनुयातो महाद्युतिः ।

व्यायतोदग्रतुरगैः सुयानैः सुसमाहितैः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 16

रथैः साङ्ग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् ।

हेमकक्षैर्महाघण्टैर्वारणैर्वारिदोपमैः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 17

महामात्रोत्तमारूढैः कल्पितै रणकोविदैः ।

स्वारूढैः सादिभिर्युक्तैः प्रेङ्खमाणैः प्रवल्गितैः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 18

वाजिभिर्वायुसङ्काशैः प्लवद्भिरिव पत्रिभिः ।

खड्गचर्मधरोदग्रैः पत्तिभिर्बलिनां वरैः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 19

सहस्रसङ्ख्यासंयुक्तैरुत्पतद्भिरिवोरगैः ।

एवं चतुर्विधैः सैन्यैः कम्पमानैरिवाम्बुदैः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 20

नृपः प्रयातो बलवाञ्जरासन्धो धृतव्रतः ।

स रथैर्मेघनिर्घोषैर्गजैश्च मदसंयुतैः ॥ २.३५.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 21

ह्रेषमाणैश्च तुरगैः क्ष्वेडमानैश्च पत्तिभिः ।

नादयानो दिशः सर्वास्तस्याः पुर्या वनानि च ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 22

स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ।

तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 23

क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ ।

रथैः पवनसम्पातैर्गजैश्च जलदोपमैः ।

तुरगैश्च जवोपेतैः पत्तिभिः खगमोपमैः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 24

विमिश्रं सर्वतो भाति मत्तद्विपसमाकुलम् ।

घर्मान्ते सागरगतं यथाभ्रपटलं तथा ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 25

सबलास्ते महीपाला जरासन्धपुरोगमाः ।

परिवार्य पुरीं सर्वे निवेशायोपचक्रिरे ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 26

बभौ तस्य निविष्टस्य बलश्रीःशिबिरस्य वै ।

शुक्लपर्यन्तपूर्णस्य यथा रूपं महोदधेः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 27

वीतरात्रे ततः काले समुत्तस्थुमहीक्षितः ।

आरोहणार्थं पुर्यास्ते समीयुर्युद्धलालसाः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 28

समवायीकृताः सर्वे यमुनामनु ते नृपाः ।

निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 29

तेषां सुतुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।

युगान्ते भिद्यमानानां सागराणामिव स्वनः ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 35: मथुरोपरोधे युद्धवर्णने, Verse 30

तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः ।

चेरुर्मा शब्द इत्येवं वदन्तो राजशासनात् ॥ २.३५.३०॥