Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने

Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 1

उग्रसेनाभिषेकः Coronation of ugrasena श्रीकृष्णेन कंसवधाय पश्चात्तापपूर्वकं तस्य औचित्यस्य समर्थनम्, उग्रसेनेन श्रीकृष्णं सर्वसमर्पणं कृत्वा कंसस्य अन्त्येष्टिसंस्काराय अनुरोधं, श्रीकृष्णेन तस्य राज्याभिषेककरणम्, समस्त यादवैः सह कंसादीनां अन्त्येष्टिकारणम् ।

वैशम्पायन उवाच ।

उग्रसेनस्तु कृष्णस्य समीपं दुःखितो ययौ ।

पुत्रशोकाभिसन्तप्तो विषपीत इव श्वसन् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 2

स ददर्श गृहे कृष्णं यादवैः परिवारितम् ।

पश्चानुतापाद् ध्यायन्तं कंसस्य निधनाविलम् ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 3

कंसनारीविलापांश्च श्रुत्वा स करुणान् बहून् ।

गर्हमाणस्तथाऽऽत्मानं तस्मिन् यादवसंसदि ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 4

अहो मयातिबाल्येन रोषाद् दोषानुवर्तिना ।

वैधव्यं स्त्रीसहस्राणां कंसस्यास्य वधे कृतम् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 5

कारुण्यं खलु नारीषु प्राकृतस्यापि जायते ।

एवमार्तं रुदन्तीषु मया भर्तरि पातिते ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 6

परिदेवितमात्रेण शोकः खलु विधीयते ।

कृतान्तस्यानभिज्ञानां स्त्रीणां कारुण्यसम्भवः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 7

कंसस्य हि वधः श्रेयान् प्रागेवाभिमतो मम ।

सतामुद्वेजनीयस्य पापेष्वभिरतस्य च ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 8

लोके पतितवृत्तस्य परुषस्यालल्पमेधसः ।

अक्लिष्टं मरणं श्रेयो न विद्विष्टस्य जीवितम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 9

कंसः पापपरश्चैव साधूनामप्यसम्मतः ।

धिक्छब्दपतितश्चैव जीविते चास्य का दया ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 10

स्वर्गे तपोभृतां वास फलं पुण्यस्य कर्मणः ।

इहापि यशसा युक्तः स्वर्गस्थैरवधार्यते ॥ २.३२.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 11

यदि स्युर्निर्वृता लोकाः स्युश्च धर्मपराः प्रजाः ।

नरा धर्मप्रवृत्ताश्च न राज्ञामनयः स्पृशेत् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 12

निग्रहे दुष्टवृत्तीनां कृतान्तः कृरुते फलम् ।

इष्टधर्मेषु लोकेषु कर्तव्यं पारलौकिकम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 13

अतीव देवा रक्षन्ति नरं धर्मपरायणम् ।

कर्तारः सुलभा लोके दुष्कृतस्य हि कर्मणः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 14

हतः सोऽयं मया कंसः साध्वेतदवगम्यताम् ।

मूलच्छेदः कृतस्तस्य विपरीतस्य कर्मणः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 15

तदेष सान्त्व्यतां सर्वः शोकार्तः प्रमदाजनः ।

पौराश्च पुर्यां श्रेण्यश्च सान्त्व्यन्तां सर्व एव हि ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 16

एवं ब्रुवति गोविन्दे विवेशावनताननः ।

उग्रसेनो यदून् गृह्य पुत्रकिल्बिषशङ्कितः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 17

स कृष्णं पुण्डरीकाक्षमुवाच यदुसंसदि ।

वाष्पसन्दिग्धया वाचा दीनया सज्जमानया ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 18

पुत्रो निर्यातितः क्रोधान्नीतो याम्यां दिशं रिपुः ।

स्वधर्माधिगता कीर्तिर्नाम विश्रावितं भुवि ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 19

स्थापितं सत्सु माहात्म्यं शङ्किता रिपवः कृताः ।

स्थापितो यादवो वंशो गर्विताः सुहृदः कृताः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 20

सामन्तेषु नरेन्द्रेषु प्रतापस्ते प्रकाशितः ।

मित्राणि त्वां भजिष्यन्ति संश्रयिष्यन्ति पार्थिवाः ॥ २.३२.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 21

प्रकृतयोऽनुयास्यन्ति स्तोष्यन्ति त्वां द्विजातयः ।

सन्धिविग्रहमुख्यास्त्वां प्रणमिष्यन्ति मन्त्रिणः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 23

धनं धान्यं च यत् किञ्चिद् रत्नान्याच्छादनानि च ।

प्रतीच्छन्तु नियुक्ता वै त्वदीयाः कृष्ण पूरुषाः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 24

स्त्रियो हिरण्यं यानानि यदन्यद् वसु किञ्चन ।

एवं हि विहिते योगे पर्याप्ते कृष्ण विग्रहे ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 25

प्रतिष्ठितायां मेदिन्यां यदूनां शत्रुसूदन ।

त्वं गतिश्चागतिश्चैव यदूनां यदुनन्दन ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 26

श‍ृणुष्व वदतां वीर कृपणानामिदं वचः ।

अस्य त्वत्कोपदग्धस्य कंसस्याशुभकर्मणः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 27

तव प्रसादाद् गोविन्द प्रेतकार्यं क्रियेत ह ।

तस्य कृत्वा नरेन्द्रस्य विपन्नस्यौर्ध्वदेहिकम् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 28

हस्त्यश्वरथसम्पूर्णं पदातिगणसङ्कुलम् ।

प्रतिगृहाण कृष्णेदं कंसस्य बलमव्ययम् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 28

सस्नुषोऽहं सभार्यश्च चरिष्यामि मृगैः सह ।

प्रेतसत्कारमात्रेण कृते बान्धवकर्मणि ।

आनृण्यं लौकिकं कृष्ण गताः किल भवन्ति हि ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 29

तस्याग्निं पश्चिमं कृत्वा चितिस्थाने विधानतः ।

तोयप्रदानमात्रेण कंसस्यानृण्यमाप्नुयाम् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 32: उग्रसेनाभिषेककंससंस्कारकथने, Verse 30

एतत्ते कृष्ण विज्ञाप्यं स्नेहोऽत्र मयि युज्यताम् ।

प्राप्नोति सुगतिं तत्र कृपणः पश्चिमां क्रियाम् ॥ २.३२.३०॥