हरिवंशपर्व, अध्याय 30: कंसवधे, Verse 1
कम्सवधः Slaying of kamsa रङ्गशालायां मल्लयुद्धविषये श्रीकृष्णस्य विचारः, श्रीकृष्णबलदेवाभ्यां चाणूरमुष्टिकादीनां वधं, कंसस्य संहारः, पितृमातृभ्यां चरणेषु प्रणामयित्वा भ्रातृद्वयोः तेषां गृहगमनं वैशम्पायन उवाच ।
प्रविशन्तं तु वेगेन मारुतावल्गिताम्बरम् ।
पूर्वजं पुरतः कृत्वा कृष्णं कमललोचनम् ॥ १॥