हरिवंशपर्व, अध्याय 29: कुवलयापीडवधे, Verse 1
कुवलयापीडमारणम् Kuvalayapida Killed नागरिकेभिः पूरितायां रङ्गशालायां मञ्चानां प्रेक्षागृहाणां शोभा, कंसस्य मल्लानां चागमनम्, श्रीकृष्णस्य बलरामस्य च रङ्गद्वारोपरि पदार्पणम्, कुवलयापीड, महामात्र एवं हस्तिनः पादरक्षकानां वधम्, बन्धुद्वयानां रङ्गस्थले प्रवेशः ।
वैशम्पायन उवाच ।
तस्मिन्नहनि निर्वृत्ते द्वितीये समुपस्थिते ।
आपूर्यत महारङ्गः पौरैर्युद्धदिदृक्षुभिः ॥ १॥