Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः

Containing 120 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 1

कंसस्य जन्मादिवृत्तम् Narrations about kamsa's birth कंसस्य चिन्ता, तेन रङ्गशालायाः दर्शनं, तस्याः सज्जीकरणस्यादेशं, चाणूर मुष्टिकाभ्यां कुवलयापीडस्य महामात्रं च श्रीकृष्णबलरामयोः वधाय आज्ञादानं, महामात्राय द्रुमिलात् स्वोत्पत्तेः कथायाः कथनं, तस्य मातुः सुयामुने पर्वतोपरि द्रुमिलेन सह समागमं , तयोः परस्परं वरदानं शापं च वैशम्पायन उवाच ।

स चिन्तयित्वा धनुषो भङ्गं भोजविवर्धनः ।

बभूव विमना राजा चिन्तयन् भृशदुःखितः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 2

कथं बालो विगतभीरवमत्य महाबलम् ।

प्रेक्ष्यमाणस्तु पुरुषैर्धनुर्भङ्क्त्वा विनिर्गतः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 3

यस्यार्थे दारुणं कर्म कृतं लोकविगर्हितम् ।

पितृष्वस्रात्मजान् वीरान्षडेवाहं न्यपोथयम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 4

दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ।

नारदोक्तं च वचनं नूनं मह्यमुपस्थितम् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 5

एवं राजा विचिन्त्याथ निष्क्रम्य स्वगृहोत्तमात् ।

प्रेक्षागारं जगामाशु मञ्चानामवलोककः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 6

स दृष्ट्वा सर्वनिर्युक्तं प्रेक्षागारं नृपोत्तमः ।

श्रेणीनां दृढनिर्युक्तैर्मञ्चवाटैर्निरन्तरम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 7

सोत्तमागारयुक्ताभिर्वलभीभिर्विभूषितम् ।

छदीभिः सम्प्रवृद्धाभिरेकस्तम्भैर्विभूषितम् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 8

सर्वतः सारनिर्व्यूहं स्वायतं सुप्रतिष्ठितम् ।

उदग्राक्लिष्टसुक्लिष्टमञ्चारोहणमुत्तमम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 9

नृपासनपरिक्षिप्तं सञ्चारपथसङ्कुलम् ।

छन्नं तद् वेदिकाभिश्च मानुषौघभरक्षमम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 10

स टष्ट्वा भूषितं रङ्गमाज्ञापयत बुद्धिमान् ।

श्वः सचित्राः समाल्याश्च सपताकास्तथैव च ॥ २.२८.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 11

सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः ।

क्रियन्तां मञ्चवाटाश्च वलभ्यो वीथयस्तथा ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 12

रङ्गवाटे करीषस्य कल्प्यन्तां राशयोऽव्ययाः ।

पटास्तरणशोभाश्च वलयश्चानुरूपतः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 13

स्थाप्यन्तां सुनिखाताश्च पानकुम्भा यथाक्रमम् ।

उदभारसहाः सर्वे सकाञ्चनघटोत्तमाः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 14

वलयश्चोपकल्प्यन्तां कषायाश्चैव कुम्भशः ।

प्राश्निकाश्च निमन्त्र्यन्तां श्रेण्यश्च सपुरोगमाः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 15

आज्ञा च देया मल्लानां प्रेक्षकाणां तथैव च ।

समाजे मञ्चशोभाश्च कल्प्यन्तां सूपकल्पिताः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 16

एवमाज्ञाप्य राजा स समाजविधिमुत्तमम् ।

समाजवाटान्निष्क्रम्य विवेश स्वं निवेशनम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 17

आह्वानं तत्र सञ्चक्रे तस्य मल्लद्वयस्य वै ।

चाणूरस्याप्रमेयस्य मुष्टिकस्य तथैव च ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 18

तौ तु मल्लौ महावीर्यौ बलिनौ बाहुशालिनौ ।

कंसस्याज्ञां पुरस्कृत्य हृष्टौ विविशतुस्तदा ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 19

तौ समीपगतौ दृष्ट्वा मल्लौ जगति विश्रुतौ ।

उवाच कंसो नृपतिः सोपन्यासमिदं वचः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 20

भवन्तौ मम विख्यातौ मल्लौ वीरध्वजोच्छ्रितौ ।

पूजितौ च यथान्यायं सत्कारार्हौ विशेषतः ॥ २.२८.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 21

तन्मत्तो यदि सत्कारः स्मर्यते सुकृतानि च ।

कर्तव्यं मे महत् कर्म भवद्भ्यां स्वेन तेजसा ॥ २१॥।

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 22

यावेतौ मम संवृद्धौ व्रजे गोपालकावुभौ ।

सङ्कर्षणश्च कृष्णश्च बालावपि जितश्रमौ ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 23

एतौ रङ्गगतौ युद्धे युद्ध्यमानौ वनेचरौ ।

निपातानन्तरं शीघ्रं हन्तव्यौ नात्र संशयः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 24

बालाविमौ सुचपलावक्रियाविति सर्वथा ।

नावज्ञा तत्र कर्तव्या कर्तव्यो यत्न एव हि ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 25

ताभ्यां युधि निरस्ताभ्यां गोपाभ्यां रङ्गसन्निधौ ।

आयत्यां च तदात्वे च श्रेयो मम भविष्यति ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 26

नृपतेः स्नेहसंयुक्तैर्वचोभिर्हृष्टमानसौ ।

ऊचतुर्युद्धसम्मत्तौ मल्लौ चाणूरमुष्टिकौ ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 27

यद्यावयोस्तौ प्रमुखे स्थास्येते गोपकिल्बिषौ ।

हतावित्येव मन्तव्यौ प्रेतरूपौ तपस्विनौ ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 28

यद्यावां प्रतियोत्स्येते तावरिष्टपरिप्लुतौ ।

आवाभ्यां रोषयुक्ताभ्यां प्रमुखे तौ वनेचरौ ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 28

इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कंसवाक्येऽष्टाविंशोऽध्यायः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 28: अष्टाविंशोऽध्यायः, Verse 29

एवं वाग्विषमुत्सृज्य तावुभौ मल्लपुङ्गवौ ।

अनुज्ञातौ नरेन्द्रेण स्वे गृहे तौ प्रजग्मतुः ॥ २९॥