हरिवंशपर्व, अध्याय 27: कंसधनुर्भङ्गे, Verse 1
कंसधनुर्भङ्गः Breaking kamsa's Bow श्रीकृष्णबलरामयोः मथुरायां प्रवेशः, ताभ्यां रजकस्य वधः, मालिनं वरदानं, कुब्जोपरि कृपा एवं कंसस्य धनुषस्य भञ्जनं वैशम्पायन उवाच ।
ते तु युङ्क्त्वा रथवरं सर्व एवामितौजसः ।
कृष्णेन सहिताः प्रायंस्तथा सङ्कर्षणेन च ॥ १॥