हरिवंशपर्व, अध्याय 26: अक्रूरकृतनागलोककथने, Verse 1
अक्रूरदर्शनम् AkrUra has a vision अकूरस्य गोपेभ्यः कंसस्यादेशस्य ख्यापनं, वसुदेवदेवक्योः दयनीयां दशां कथयित्वा श्रीकृष्णबलरामाभ्यां मथुरागमने प्रेरणम्, मार्गे अक्रूरेण यमुनाजले आश्चर्यमयस्य नागलोकस्य एवं भगवतः अनन्तस्य एवं तस्य अङ्के श्रीकृष्णस्य दर्शनं वैशम्पायन उवाच ।
स नन्दगोपस्य गृहं प्रविष्टः सह केशवः ।
गोपवृद्धान् समानीय प्रोवाचामितदक्षिणः ॥ १॥