हरिवंशपर्व, अध्याय 25: अक्रूरागमने, Verse 1
अक्रुरागमनम् AkrUra arrives अक्रूरस्य व्रजं आगत्वा भगवतः श्रीकृष्णस्य दर्शनं, तस्य विषये अनेकानां प्रकाराणां चिन्तनं वैशम्पायन उवाच ।
अथास्तं गच्छति तदा मन्दरश्मौ दिवाकरे ।
सन्ध्यारक्ततले व्योम्नि शशाङ्के पाण्डुमण्डले ॥ १॥