Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 1

निमिषादि कल्पान्त संख्यः Divison of time-cylces चारों युगों, मन्वन्तरों और व्रह्माजी के दिन एवं वर्ष का मान जनमेजय उवाच ।

मन्वन्तरस्य सङ्ख्यानं युगानां च महामते ।

ब्रह्मणोऽह्नः प्रमाणं च वक्तुमर्हसि मे द्विज ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 2

वैशम्पायन उवाच ।

अहोरात्रं भजेत् सूर्यो मानवं लौकिकं परम् ।

तामुपादाय गणनां श‍ृणु सङ्ख्यामरिन्दम ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 3

निमेषैः पञ्चदशभिः काष्ठा त्रिंशत् तु ताः कलाः ।

त्रिंशत्कलो मुहूर्तस्तु त्रिंशता तैर्मनीषिणः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 4

अहोरात्रमिति प्राहुश्चन्द्रसूर्यगतिं नृप ।

विशेषेण तु सर्वेषु अहोरात्रे च नित्यशः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 5

अहोरात्राः पञ्चदश पक्ष इत्यभिशब्दितः ।

द्वौ पक्षौ तु स्मृतो मासो मासौ द्वावृतुरुच्यते ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 6

अब्दं द्व्ययनमुक्तं च अयनं त्वृतुभिस्त्रिभिः ।

दक्षिणं चोत्तरं चैव सङ्ख्यातत्त्वविशारदैः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 7

मानेनानेन यो मासः पक्षद्वयसमन्वितः ।

पितॄणां तदहोरात्रमिति कालविदो विदुः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 8

कृष्णपक्षस्त्वहस्तेषां शुक्लपक्षस्तु शर्वरी ।

कृष्णपक्षं त्वहः श्राद्धं पितॄणां वर्तते नृप ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 8

इति श्रीमहाभारते खिलभागे हरिवंशे हरिवंशपर्वणि मन्वन्तरगणनायामष्टमोऽध्यायः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 9

मानुषेण तु मानेन यो वै संवत्सरः स्मृतः ।

देवानां तदहोरात्रं दिवा चैवोत्तरायणम् ।

दक्षिणायनं स्मृता रात्रिः प्राज्ञैस्तत्त्वार्थकोविदैः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 10

दिव्यमब्दं दशगुणमहोरात्रं मनोः स्मृतम् ।

अहोरात्रं दशगुणं मानवः पक्ष उच्यते ॥ १.८.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 11

पक्षो दशगुणो मासो मासैर्द्वादशभिर्गुणैः ।

ऋतुर्मनूनां सम्प्रोक्तः प्राज्ञैस्तत्त्वार्थदर्शिभिः ।

ऋतुत्रयेण त्वयनं तद्द्वयेनैव वत्सरः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 12

चत्वार्येव सहस्राणि वर्षाणां तु कृतं युगम् ।

तावच्छती भवेत् सन्ध्या सन्ध्यांशश्च तथा नृप ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 13

त्रीणि वर्षसहस्राणि त्रेता स्यात्परिमाणतः ।

तस्याश्च त्रिशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 14

तथा वर्षसहस्रे द्वे द्वापरं परिकीर्तितम् ।

तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 15

कलिर्वर्षसहस्रं च सङ्ख्यातोऽत्र मनीषिभिः ।

तस्यापि शतिका सन्ध्या सन्ध्यांशश्चैव तद्विधः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 16

एषा द्वादशसाहस्री युगसङ्ख्या प्रकीर्तिता ।

दिव्येनानेन मानेन युगसङ्ख्यां निबोध मे ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 17

कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगी ।

युगं तदेकसप्तत्या गणितं नृपसत्तम ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 18

मन्वन्तरमिति प्रोक्तं सङ्ख्यानार्थविशारदैः ।

अयनं चापि तत्प्रोक्तं द्वेऽयने दक्षिणोत्तरे ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 19

मनुः प्रलीयते यत्र समाप्ते चायने प्रभोः ।

ततोऽपरो मनुः कालमेतावन्तं भवत्युत ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 20

समतीतेषु राजेन्द्र प्रोक्तः संवत्सरः स वै ।

तदेव चायुतं प्रोक्तं मुनिना तत्त्वदर्शिना ॥ १.८.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 21

ब्रह्मणस्तदहः प्रोक्तं कल्पश्चेति स कथ्यते ।

सहस्रयुगपर्यन्ता या निशा प्रोच्यते बुधैः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 22

निमज्जत्यप्सु यत्रोर्वी सशैलवनकानना ।

तस्मिन् युगसहस्रे तु पूर्णे भरतसत्तम ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 23

ब्राह्मे दिवसपर्यन्ते कल्पो निःशेष उच्यते ।

युगानि सप्ततिस्तानि साग्राणि कथितानि ते ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 24

कृतत्रेतानिबद्धानि मनोरन्तरमुच्यते ।

चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्द्धनाः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 25

वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः ।

प्रजानां पतयो राजन् धन्यमेषां प्रकीर्तनम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 26

मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः ।

न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 27

विसर्गस्य प्रजानां वै संहारस्य च भारत ।

मन्वन्तरेषु संहाराः श्रूयन्ते भरतर्षभ ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 28

सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह ।

तपसा ब्रह्मचर्येण श्रुतेन च समाहिताः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 29

पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ।

तत्र सर्वाणि भूतानि दग्धान्यादित्यतेजसा ॥ २९॥