हरिवंशपर्व, अध्याय 22: अक्रूरप्रस्थाने, Verse 1
अक्रूरप्रस्तानम् A mission for akrUra कंसस्य आशङ्का, तस्य रात्रिसमये यदुवंशीनामाह्वयित्वा सभायां श्रीकृष्णस्य एवं विष्णोः प्रभावस्य कथनम्, वसुदेवोपरि कठोराक्षेपम्, श्रीकृष्णादीनां आनयने अक्रूरस्य व्रजगमनाय आज्ञापनं वैशम्पायन उवाच ।
कृष्णं व्रजगतं श्रुत्वा वर्धमानमिवानलम् ।
उद्वेगमगमत् कंसः शङ्कमानस्ततो भयम् ॥ १॥