Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 1

हल्लीसकक्रीडनम् Krishna and gopi-s play music श्रीकृष्णस्य अलौकिकं चरित्रं दृष्ट्वा आशङ्कितानां गोपानां कृष्णात् प्रश्नं, श्रीकृष्णेन उत्तरं एवं तस्य रासलीलायाः सङ्क्षेपतः वर्णनं वैशम्पायन उवाच ।

गते शक्रे ततः कृष्णः पूज्यमानो व्रजालयैः ।

गोवर्धनपरः श्रीमान् विवेश व्रजमेव ह ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 2

तस्य वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिताः ।

धन्याः स्मोऽनुगृहीताः स्मस्त्वद्वृत्तेन नयेन च ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 3

गावो वर्षभयात् तीर्णा वयं तीर्णा महाभयात् ।

तव प्रसादाद् गोविन्द देवतुल्यपराक्रम ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 4

अमानुषाणि कर्माणि तव पश्याम गोपते ।

धारणेनास्य शैलस्य विद्मस्त्वां कृष्ण दैवतम् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 5

कस्त्वं भवसि रुद्राणां मरुतां च महाबलः ।

वसूनां वा किमर्थे च वसुदेवः पिता तव ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 6

बलं च बाल्ये क्रीडा च जन्म चास्मासु गर्हितम् ।

कृष्ण दिव्या च ते चेष्टा शङ्कितानि मनांसि नः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 7

किमर्थं गोपवेषेण रमसेऽस्मासु गर्हितम् ।

लोकपालोपमश्चैव गास्त्वं किं परिरक्षसि ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 8

देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।

अस्माकं बान्धवो जातो योऽसि सोऽसि नमोऽस्तु ते ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 9

केनचिद् यदि कार्येण वससीह यदृच्छया ।

वयं तवानुगाः सर्वे भवन्तं शरणं गताः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 10

वैशम्पायन उवाच ।

गोपानां वचनं श्रुत्वा कृष्णः पद्मदलेक्षणः ।

प्रत्युवाच स्मितं कृत्वा ज्ञातीन्सर्वान्समागतान् ॥ २.२०.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 11

मन्यन्ते मां यथा सर्वे भवन्तो भीमविक्रमम् ।

तथाहं नावमन्तव्यः स्वजातीयोऽस्मि बान्धवः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 12

यदि त्ववश्यं श्रोतव्यं कालः सम्प्रतिपाल्यताम् ।

ततो भवन्तः श्रोष्यन्ति मां च द्रक्ष्यन्ति तत्त्वतः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 13

यद्ययं भवतां श्लाघ्यो बान्धवो देवसप्रभः ।

परिज्ञानेन किं कार्यं यद्येषोऽनुग्रहो मम ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 14

एवमुक्तास्तु ते गोपा वसुदेवसुतेन वै ।

बद्धमौना दिशः सर्वे भेजिरे पिहिताननाः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 15

कृष्णस्तु यौवनं दृष्ट्वा निशि चन्द्रमसो वनम् ।

शारदीं च निशां रम्यां मनश्चक्रे रतिं प्रति ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 16

स करीषाङ्गरागासु व्रजरथ्यासु वीर्यवान् ।

वृषाणां जातदर्पाणां युद्धानि समयोजयत् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 17

गोपालांश्च बलोदग्रान्योधयामास वीर्यवान् ।

वने स वीरो गाश्चैव जग्राह ग्राहवद् विभुः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 18

युवतीर्गोपकन्याश्च रात्रौ सङ्काल्य कालवित् ।

कैशोरकं मानयन् वै सह ताभिर्मुमोद ह ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 19

तास्तस्य वदनं कान्तं कान्ता गोपस्त्रियो निशि ।

पिबन्ति नयनाक्षेपैर्गां गतं शशिनं यथा ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 20

हरितालार्द्रपीतेन स कौशेयेन वाससा ।

वसानो भद्रवसनं कृष्णः कान्ततरोऽभवत् ॥ २.२०.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 20

इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रासक्रीडायां विंशोध्यायः ॥ २०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 21

स बद्धाङ्गदनिर्व्यूहश्चित्रया वनमालया ।

शोभमानो हि गोविन्दः शोभयामास तद्व्रजम् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 22

नाम दामोदरेत्येवं गोपकन्यास्तदाब्रुवन् ।

विचित्रं चरितं घोषे दृष्ट्वा तत्तस्य भास्वतः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 23

तास्तं पयोधरोत्तुङ्गैरुरोभिः समपीडयन् ।

भ्रामिताक्षैश्च वदनैर्निरीक्षन्ते वराङ्गनाः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 24

ता वार्यमाणाः पतिभिर्मातृभिर्भ्रातृभिस्तथा ।

कृष्णं गोपाङ्गना रात्रौ मृगयन्ते रतिप्रियाः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 25

तास्तु पङ्क्तीकृताः सर्वा रमयन्ति मनोरमम् ।

गायन्त्यः कृष्णचरितं द्वन्द्वशो गोपकन्यकाः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 26

कृष्णलीलानुकारिण्यः कृष्णप्रणिहितेक्षणाः ।

कृष्णस्य गतिगामिन्यस्तरुण्यस्ता वराङ्गनाः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 27

वनेषु तालहस्ताग्रैः कूजयन्त्यस्तथापराः ।

चेरुर्वै चरितं तस्य कृष्णस्य व्रजयोषितः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 28

तास्तस्य नृत्यं गीतं च विलासस्मितवीक्षितम् ।

मुदिताश्चानुकुर्वन्त्यः क्रीडन्ति व्रजयोषितः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 20: विंशोऽध्यायः, Verse 29

भावनिस्पन्दमधुरं गायन्त्यस्ता वराङ्गनाः ।

व्रजं गताः सुखं चेरुर्दामोदरपरायणाः ॥ २९॥