हरिवंशपर्व, अध्याय 19: गोविन्दाभिषेके, Verse 1
गोविन्दाभिषेकः Krishna honoured देवराजेन्द्रस्यागमनम्, श्रीकृष्णस्य गोविन्दपदे अभिषेकः, इन्द्रेण श्रीकृष्णं भावीकार्यं कथयित्वा अर्जुनस्य क्षेमाय बोधनम्, श्रीकृष्णेन तस्य स्वीकृतिः वैशम्पायन उवाच ।
धृतं गोवर्द्धनं दृष्ट्वा परित्रातं च गोकुलम् ।
कृष्णस्य दर्शनं शक्रो रोचयामास विस्मितः ॥ १॥