Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः

Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 1

गोवर्द्धनधारणम् Hoisting the govardhana mountain इन्द्रेण संवर्तकमेघेभ्यः वर्षणं कारयित्वा गोभ्यः गोपेभ्यः च कष्टदानं, श्रीकृष्णेन गोवर्धनधारणं एवं तस्याधः गवां गोपानां च गमनं वैशम्पायन उवाच ।

महे प्रतिहते शक्रः सक्रोधस्त्रिदशेश्वरः ।

संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 1

विनेदुर्बर्हिणस्तत्र तोककल्परुताः खगाः ।

विवृद्धिं निम्नगा याताः प्लवगाः सम्प्लवं गताः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 2

भो बलाहकमातङ्गाः श्रूयतां मम भाषितम् ।

यदि वो मत्प्रियं कार्यं राजभक्तिपुरस्कृतम् ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 3

एते वृन्दावनगता दामोदरपरायणाः ।

नन्दगोपादयो गोपा विद्विषन्ति ममोत्सवम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 4

आजीवो यः परस्तेषां गोपत्यं च यतः स्मृतम् ।

ता गावः सप्तरात्रेण पीड्यन्तां वर्षमारुतैः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 5

ऐरावतगतश्चाहं स्वयमेवाम्बु दारुणम् ।

स्रक्ष्यामि वृष्टिं वातं च वज्राशनिसमप्रभम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 6

भवद्भिश्चण्डवर्षेण चरता मारुतेन च ।

हतास्ताः सव्रजा गावस्त्यक्ष्यन्ति भुवि जीवितम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 7

एवमाज्ञापयामास सर्वाञ्जलधरान् प्रभुः ।

प्रत्याहते वै कृष्णेन शासने पाकशासनः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 8

ततस्ते जलदाः कृष्णा घोरनादा भयावहाः ।

आकाशं छादयामासुः सर्वतः पर्वतोपमाः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 9

विद्युत्सम्पातजननाः शक्रचापविभूषिताः ।

तिमिरावृतमाकाशं चक्रुस्ते जलदास्तदा ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 10

गजा इवान्यसंयुक्ताः केचिन्मकरवर्चसः ।

नागा इवान्ये गगने चेरुर्जलदपुङ्गवाः ॥ २.१८.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 11

तेऽन्योन्यं वपुषा बद्धा नागयूथायुतोपमाः ।

दुर्दिनं विपुलं चक्रुश्छादयन्तो नभस्तलम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 12

नृहस्तनागहस्ताभ्यां वेणूनां चैव सर्वतः ।

धाराभिस्तुल्यरूपाभिर्ववृषुस्ते बलाहकाः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 13

समुद्रं मेनिरे तं हि खमारूढं नृचक्षुषः ।

दुर्विगाह्यमपर्यन्तमगाधं दुर्दिनं महत् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 14

नैवापतन् वै खगमा दुद्रुवुर्मृगजातयः ।

पर्वताभेषु मेघेषु खे नन्दन्तु समन्ततः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 15

नष्टसूर्येन्दुसदृशैर्मेघैर्नभसि दारुणैः ।

अतिवृष्टेन लोकस्य विरूपमभवद् वपुः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 16

मेघौघैर्निष्प्रभाकारमदृश्यग्रहतारकम् ।

चन्द्रसूर्यांशुरहितं खं बभूवातिनिष्प्रभम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 17

वारिणा मेघमुक्तेन मुच्यमानेन चासकृत् ।

आबभौ सर्वतस्तत्र भूमिस्तोयमयी यथा ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 18

इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोवर्धनधारणेऽष्टादशोऽध्यायः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 19

गर्जितेन च मेघानां पर्जन्यनिनदेन च ।

तर्जितानीव कम्पन्ते तृणानि तरुभिः सह ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 20

प्राप्तोऽन्तकालो लोकानां व्यक्तमेकार्णवा मही ।

इति गोपगणा वाक्यं व्याहरन्ति भयार्दिताः ॥ २.१८.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 21

तेनोत्पाताम्बुवर्षेण गावो विप्रहता भृशम् ।

हम्भारवैः क्रन्दमाना न चेलुः स्तम्भितोपमाः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 22

निष्कम्पसक्थिचरणा निष्प्रयत्नखुराननाः ।

हृष्टरोमार्द्रतनवः क्षामकुक्षिपयोधराः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 23

काश्चित् प्राणाञ्जहुः श्रान्ता निपेतुः काश्चिदातुराः ।

काश्चित्सवत्साः पतिता गावः शीकरवेजिताः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 24

काश्चिदाक्रम्य क्रोडेन वत्सांस्तिष्ठन्ति मातरः ।

विमुखाः श्रान्तसक्थ्यश्च निराहाराः कृशोदराः ।

पेतुरार्ता वेपमाना गावो वर्षपराजिताः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 25

वत्साश्चोन्मुखका बाला दामोदरमुखाः स्थिताः ।

त्राहीति वदनैर्दीनैः कृष्णमूचुरिवार्दिताः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 26

गवां तत् कदनं दृष्ट्वा दुर्दिनागमजं महत् ।

गोपांश्चासन्ननिधनान् कृष्णः कोपं समादधे ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 27

स चिन्तयित्वा संरब्धो दृष्टो योगो मयेति च ।

आत्मानमात्मना वाक्यमिदमूचे प्रियंवदः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 28

अद्याहमिममुत्पाट्य सकाननवनं गिरिम् ।

कल्पयेयं गवां स्थानं वर्षत्राणाय दुर्धरम् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 18: अष्टादशोऽध्यायः, Verse 29

अयं धृतो मया शैलः पृथ्वीगृहनिभोपमः ।

त्रास्यते सव्रजा गा वै मद्वश्यश्च भविष्यति ॥ २९॥