हरिवंशपर्व, अध्याय 17: गिरियज्ञप्रवर्तने, Verse 1
गोवर्धनमहोत्सवः Performance of mountain-sacrifice गोपेभिः श्रीकृष्णस्य वार्तां स्वीकृत्व गिरियज्ञस्य अनुष्ठानं एवं भगवता दिव्यरूपं धारयित्वा तेषां पूजाग्रहणं एवं तेभ्यः वरप्रदानं वैशम्पायन उवाच ।
दामोदरवचः श्रुत्वा हृष्टास्ते गोषु जीविनः ।
तद्वागमृतमासाद्य प्रत्यूचुरविशङ्कया ॥ १॥