Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 1

कृष्णं प्रति गोपवाख्यम् Gopa-s explain to Krishna इन्द्रोत्सवविषये श्रीकृष्णस्य जिज्ञासा एवं एकेन वृद्धगोपेन तस्यावश्यकताप्रतिपादनं वैशम्पायन उवाच ।

तयोः प्रवृत्तयोरेवं कृष्णस्य च बलस्य च ।

वने विचरतोर्मासौ व्यतियातौ स्म वार्षिकौ ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 2

व्रजमाजग्मतुस्तौ तु व्रजे शुश्रुवतुस्तदा ।

प्राप्तं शक्रमहं वीरौ गोपांश्चोत्सवलालसान् ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 3

कौतूहलादिदं वाक्यं कृष्णः प्रोवाच तत्र तान् ।

कोऽयं शक्रमहो नाम येन वो हर्ष आगतः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 4

तत्र वृद्धतमस्त्वेको गोपो वाक्यमुवाच ह ।

श्रूयतां तात शक्रस्य यदर्थं ध्वज इज्यते ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 5

देवानामीश्वरः शक्रो मेघानां चारिसूदन ।

तस्य चायं महः कृष्ण लोकनाथस्य शाश्वतः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 6

तेन सञ्चोदिता मेघास्तस्य चायुधभूषिताः ।

तस्यैवाज्ञाकराः सस्यं जनयन्ति नवाम्बुभिः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 7

मेघस्य पयसो दाता पुरुहूतः पुरन्दरः ।

सम्प्रहृष्टः स भगवान् प्रीणयत्यखिलं जगत् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 8

तेन सम्पादितं सस्यं वयमन्ये च मानवाः ।

वर्तयामोपयुञ्जानास्तर्पयामश्च देवताः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 9

देवे वर्षति लोकेऽस्मिंस्ततः सस्यं प्रवर्धते ।

पृथिव्यां तर्पितायां तु सामृतं लक्ष्यते जगत् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 10

क्षीरवत्यस्त्विमा गावो वत्सवत्यश्च निर्वृताः ।

तेन संवर्धितैस्तात तृणैः पुष्टाः सपुङ्गवाः ॥ २.१५.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 11

नासस्या नातृणा भूमिर्न बुभुक्षार्दितो जनः ।

दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 12

दुदोह सवितुर्गा वै शक्रो दिव्याः पयस्विनीः ।

ताः क्षरन्ति नवं क्षीरं मेध्यं मेघौघधारितम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 13

वाय्वीरितं तु मेघेषु करोति निनदं महत् ।

जवेनावर्तितं चैव गर्जतीति जना विदुः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 14

तस्य चैवोह्यमानस्य वायुयुक्तैर्बलाहकैः ।

वज्राशनिसमाः शब्दाः श्रूयन्ते नगभेदिनः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 15

तज्जलं वज्रनिष्पेषैर्विमुञ्चति नभोगतैः ।

बहुभिः कामगैर्मेघैः शक्रो भृत्यैरिवेश्वरः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 16

क्वचिद् दुर्दिनसङ्काशैः क्वचिच्छिन्नाभ्रसन्निभैः ।

क्वचिद् भिन्नाञ्जनाकारैः क्वचिच्छीकरवर्षिभिः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 17

मण्डयतीव देवेन्द्रो विश्वमेवं नभो घनैः ।

क्वचिच्छीकरमुक्ताभं कुरुते गगनं घनः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 18

एवमेतत्पयो दुग्धं गोभिः सूर्यस्य वारिदैः ।

पर्जन्यः सर्वभूतानां भवाय भुवि वर्षति ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 15: शिशुचर्यायां, Verse 19

यस्मात्प्रावृडियं कृष्ण शक्रस्य भुवि भाविनी ।

तस्मात्प्रावृषि राजानः सर्वे शक्रं मुदा युताः ।

महैः सुरेशमर्चन्ति वयमन्ये च मानवाः ॥ १९॥