हरिवंशपर्व, अध्याय 12: शिशुचर्यायां, Verse 1
कालियदमनम् Subjugation of kAliya श्रीकृष्णेन कालियनागस्य दमनं, तस्य समुद्रं प्रति प्रस्थानं एवं गोपेभिः श्रीकृष्णस्य महत्तायाः अनुभवं वैशम्पायन उवाच ।
सोपसृत्य नदीतीरं बद्ध्वा परिकरं दृढम् ।
आरोहच्चपलः कृष्णः कदम्बशिखरं मुदा ॥ १॥