हरिवंशपर्व, अध्याय 11: बालचरिते, Verse 1
यमुनावर्णनम् Description of yamunA श्रीकृष्णस्य अङ्गच्छटा, भाण्डीर वटः, यमुना एवं कालियदहस्य वर्णनम्, श्रीकृष्णेन कालियनागस्य निग्रहविचारणं वैशम्पायन उवाच ।
कदाचित् तु तदा कृष्णो विना सङ्कर्षणेन वै ।
चचार तद् वनं रम्यं कामरूपी वराननः ॥ १॥