Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 1

वृकवर्णनम् Attack by wolves श्रीकृष्णबलरामयोः बालचर्या, श्रीकृष्णेन व्रजं अन्यत्र नेतुं चेष्टा, स्वदेहात् वृकाणां उत्पत्तिं कृत्वा सर्वस्य व्रजस्य भीतिकरणं वैशम्पायन उवाच ।

एवं तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ ।

तस्मिन्नेव व्रजस्थाने सप्तवर्षौ बभूवतुः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 2

नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ।

बभूवतुर्वत्सपालौ काकपक्षधरावुभौ ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 3

पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ ।

शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 4

मयूराङ्गदकर्णौ तु पल्लवापीडधारिणौ ।

वनमालाकुलोरस्कौ द्रुमपोताविवोद्गतौ ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 5

अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ ।

सशिक्यतुम्बकरकौ गोपवेणुप्रवादकौ ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 6

क्वचिद्धसन्तावन्योन्यं क्रीडमानौ क्वचित्क्वचित् ।

पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरेक्षणौ ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 7

एवं वत्सान् पालयन्तौ शोभयन्तौ महावनम् ।

चञ्चूर्यन्तौ रमन्तौ स्म किशोराविव चञ्चलौ ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 8

अथ दामोदरः श्रीमान् सङ्कर्षणमुवाच ह ।

आर्य नास्मिन् वने शक्यं गोपालैः सह क्रीडितुम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 9

अवगीतमिदं सर्वमावाभ्यां भुक्तकाननम् ।

प्रक्षीणतृणकाष्ठं च गोपैर्मथितपादपम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 10

घनीभूतानि यान्यासन् काननानि वनानि च ।

तान्याकाशनिकाशानि दृश्यन्तेऽद्य यथाऽसुखम् ॥ २.८.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 11

गोवाटेष्वपि ये वृक्षाः परिवृत्तार्गलेषु च ।

सर्वे गोष्ठाग्निषु गताः क्षयमक्षयवर्चसः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 12

सन्निकृष्टानि यान्यासन्काष्ठानि च तृणानि च ।

तानि दूरावकृष्टासु मार्गितव्यानि भूमिषु ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 13

अरण्यमिदमल्पोदमल्पकक्षं निराश्रयम् ।

अन्वेषितव्यविश्रामं दारुणं विरलद्रुमम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 14

अकर्मण्येषु वृक्षेषु स्थितविप्रस्थितद्विजम् ।

संवासस्यास्य महतो जनेनोत्सादितद्रुमम् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 15

निरानन्दं निरास्वादं निष्प्रयोजनमारुतम् ।

निर्विहङ्गमिदं शून्यं निर्व्यञ्जनमिवाशनम् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 16

विक्रीयमाणैः काष्ठैश्च शाकैश्च वनसम्भवैः ।

उच्छिन्नसञ्चयतृणैर्घोषोऽयं नगरायते ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 17

शैलानां भूषणं घोषो घोषाणां भूषणं वनम् ।

वनानां भूषणं गावस्ताश्चास्माकं परा गतिः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 18

तस्मादन्यद् वनं यामः प्रत्यग्रयवसेन्धनम् ।

इच्छन्त्यनुपभुक्तानि गावो भोक्तुं तृणानि च ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 19

तस्माद् वनं नवतृणं गच्छन्तु धनिनो व्रजाः ।

न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा ।

प्रशस्ता वै व्रजा लोके यथा वै चक्रचारिणः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 20

शकृन्मूत्रेषु तेष्वेव जातक्षाररसायनम् ।

न तृणं भुञ्जते गावो नापि तत् पयसे हितम् ॥ २.८.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 21

स्थलीप्रायासु रथ्यासु नवासु वनराजिषु ।

चरावः सहितौ गोभिः क्षिप्रं संवाह्यतां व्रजः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 22

श्रूयते हि वनं रम्यं पर्याप्ततृणसंस्तरम् ।

नाम्ना वृन्दावनं नाम स्वादुवृक्षफलोदकम् ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 23

अझिल्लिकण्टकवनं सर्वैर्वनगुणैर्युतम् ।

कदम्बपादपप्रायं यमुनातीरसंश्रितम् ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 24

स्निग्धशीतानिलवनं सर्वर्तुनिलयं शुभम् ।

गोपीनां सुखसञ्चारं चारुचित्रवनान्तरम् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 25

तत्र गोवर्धनो नाम नातिदूरे गिरिर्महान् ।

भ्राजते दीर्घशिखरो नन्दनस्येव मन्दरः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 26

मध्ये चास्य महाशाखो न्यग्रोधो योजनोच्छ्रितः ।

भाण्डीरो नाम शुशुभे नीलमेघ इवाम्बरे ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 27

मध्येन चास्य कालिन्दी सीमन्तमिव कुर्वती ।

प्रयाता नन्दनस्येव नलिनी सरितां वरा ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 28

तत्र गोवर्धनं चैव भाण्डीरं च वनस्पतिम् ।

कालिन्दीं च नदीं रम्यां द्रक्ष्यावश्चरतः सुखम् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 29

तत्रायं कल्प्यतां घोषस्त्यज्यतां निर्गुणं वनम् ।

सन्त्रासयावो भद्रं ते किञ्चिदुत्पाद्य कारणम् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 8: शिशुचर्यायां, Verse 30

एवं कथयतस्तस्य वासुदेवस्य धीमतः ।

प्रादुर्बभूवुः शतशो रक्तमांसवसाशनाः ॥ २.८.३०॥