हरिवंशपर्व, अध्याय 7: सप्तमोऽध्यायः, Verse 1
यमलार्जुनभङ्गः The snapping of yamala-arjuna trees श्रीकृष्णबलरामाभ्यां व्रजे जानुभ्यां रिङ्गणं एवं श्रीकृष्णेन आत्मानं उलूखले बद्ध्वा यमलार्जुनभङ्गकरणं वैशम्पायन उवाच ।
काले गच्छति तौ सौम्यौ दारकौ कृतनामकौ ।
कृष्णसङ्कर्षणौ चोभौ रिङ्गिणौ समपद्यताम् ॥ १॥