Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 1

शकटभङ्गपूतनावधौ Elimination of shakaTAsura and pUtanA शकटभञ्जनं पूतनावधं च वैशम्पायन उवाच ।

तत्र तस्यासतः कालः सुमहानत्यवर्तत ।

गोव्रजे नन्दगोपस्य बल्लवत्वं प्रकुर्वतः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 2

दारकौ कृतनामानौ ववृधाते सुखं च तौ ।

ज्येष्ठः सङ्कर्षणो नाम कनीयान् कृष्ण एव तु ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 3

मेघकृष्णस्तु कृष्णोऽभूद् देहान्तरगतो हरिः ।

व्यवर्धत गवां मध्ये सागरस्य इवाम्बुदः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 4

शकटस्य त्वधः सुप्तं कदाचित् पुत्रगृद्धिनी ।

यशोदा तं समुत्सृज्य जगाम यमुनां नदीम् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 5

शिशुलीलां ततः कुर्वन्स हस्तचरणौ क्षिपन् ।

रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 6

स तत्रैकेन पादेन शकटं पर्यवर्तयत् ।

न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 7

एतस्मिन्नन्तरे प्राप्ता यशोदा भयविक्लवा ।

स्नाता प्रस्रवदिग्धाङ्गी बद्धवत्सेव सौरभी ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 8

सा ददर्श विपर्यस्तं शकटं वायुना विना ।

हाहेति कृत्वा त्वरिता दारकं जगृहे तदा ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 9

न सा बुबोध तत्त्वेन शकटं परिवर्तितम् ।

स्वस्ति मे दारकायेति प्रीता भीता च साभवत् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 10

किं तु वक्ष्यति ते पुत्र पिता परमकोपनः ।

त्वय्यधःशकटे सुप्ते अकस्माच्च विलोडिते ॥ २.६.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 11

किं मे स्नानेन दुःस्नानं किं च मे गमने नदीम् ।

पर्यस्ते शकटे पुत्र या त्वां पश्याम्यपावृतम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 12

एतस्मिन्नन्तरे गोभिराजगाम वनेचरः ।

काषायवाससी बिभ्रन् नन्दगोपो व्रजान्तिकम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 13

स ददर्श विपर्यस्तं भिन्नभाण्डघटीघटम् ।

अपास्तधूर्विभिन्नाक्षं शकटं चक्रमौलिनम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 14

भीतस्त्वरितमागत्य सहसा साधुलोचनः ।

अपि मे स्वस्तिपुत्रायेत्यसकृद् वचनं वदन् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 15

पिबन्तं स्तनमालक्ष्य पुत्रं स्वस्थोऽब्रवीत्पुनः ।

वृषयुद्धं विना केन पर्यस्तं शकटं मम ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 16

प्रत्युवाच यशोदा तं भीता गद्गदभाषिणी ।

न विजानाम्यहं केन शकटं परिवर्तितम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 17

अहं नदी गता सौम्य चैलप्रक्षालनार्थिनी ।

आगता च विपर्यस्तमपश्यं शकटं भुवि ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 18

तयोः कथयतोरेवमब्रुवंस्तत्र दारकाः ।

अनेन शिशुना यानमेतत् पादेन लोडितम् ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 19

अस्माभिः सम्पतद्भिश्च दृष्टमेतद् यदृच्छया ।

नन्दगोपस्तु तच्छ्रुत्वा विस्मयं परमं ययौ ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 20

प्रहृष्टश्चैव भीतश्च किमेतदिति चिन्तयन् ।

न च ते श्रद्दधुर्गोपाः सर्वे मानुषबुद्धयः ॥ २.६.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 21

आश्चर्यमिति ते सर्वे विस्मयोत्फुल्ललोचनाः ।

स्वे स्थाने शकटं स्थाप्य चक्रबन्धमकारयन् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 22

वैशम्पायन उवाच ।

कस्यचित्त्वथ कालस्य शकुनी वेषधारिणी ।

धात्री कंसस्य भोजस्य पूतनेति परिश्रुता ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 23

पूतना नाम शकुनी घोरा प्राणिभयङ्करी ।

आजगामार्द्धरात्रे वै पक्षौ क्रोधाद् विधुन्वती ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 24

ततोऽर्धरात्रसमये पूतना प्रत्यदृश्यत ।

व्याघ्रगम्भीरनिर्घोषं व्याहरन्ती पुनः पुनः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 25

निलिल्ये शकटस्याक्षे प्रस्रवोत्पीडवर्षिणी ।

ददौ स्तनं च कृष्णाय तस्मिन् सुप्ते जने निशि ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 26

तस्याः स्तनं पपौ कृष्णः प्राणैः सह विनद्य च ।

छिन्नस्तनी तु सहसा पपात शकुनी भुवि ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 27

तेन शब्देन वित्रस्तास्ततो बुबुधिरे भयात् ।

स नन्दगोपो गोपा वै यशोदा च सुविक्लवा ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 28

ते तामपश्यन् पतितां विसंज्ञां विपयोधराम् ।

पूतनां पतितां भूमौ वज्रेणेव विदारिताम् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 29

इदं किं त्विति सन्त्रस्ताः कस्येदं कर्म चेत्यपि ।

नन्दगोपं पुरस्कृत्य गोपास्ते पर्यवारयन् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 6: शिशुचर्यायां, Verse 30

नाध्यगच्छन्त च तदा हेतुं तत्र कदाचन ।

आश्चर्यमाश्चर्यमिति ब्रुवन्तोऽनुययुर्गृहान् ॥ २.६.३०॥