Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 1

गोव्रजगमनम् Nanda relocating to vraja वसुदेवेन नन्दाय व्रजे प्रत्यागमनस्य सम्मतिः, नन्दस्य गोव्रजस्य शोभायाः अवलोकनं तत्रागमनं च ।

वैशम्पायन उवाच ।

प्रागेव वसुदेवस्तु व्रजे शुश्राव रोहिणीम् ।

प्रज्ञातां पुत्रमेवाग्रे चन्द्रात् कान्ततराननम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 2

स नन्दगोपं त्वरितः प्रोवाच शुभया गिरा ।

गच्छानया सहैव त्वं व्रजमेव यशोदया ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 3

तत्र तौ दारकौ गत्वा जातकर्मादिभिर्गुणैः ।

योजयित्वा व्रजे तात संवर्धय यथासुखम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 4

रौहिणेयं च पुत्रं मे परिरक्ष शिशुं व्रजे ।

अहं वाच्यो भविष्यामि पितृपक्षेषु पुत्रिणाम् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 5

योऽहमेकस्य पुत्रस्य न पश्यामि शिशोर्मुखम् ।

ह्रियते हि बलात्प्रज्ञा प्राज्ञस्यापि सतो मम ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 6

अस्माद्धि मे भयं कंसान्निर्घृणाद् वै शिशोर्वधे ।

तद्यथा रौहिणेयं त्वं नन्दगोप ममात्मजम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 7

गोपायसि यथा तात तत्त्वान्वेषी तथा कुरु ।

विघ्ना हि बहवो लोके बालानुत्त्रासयन्ति हि ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 8

स च पुत्रो मम ज्यायान् कनीयांश्च तथाप्ययम् ।

उभावपि समं नाम्ना निरीक्षस्व यथासुखम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 9

वर्धमानामुभावेतौ समानवयसौ यथा ।

शोभेतां गोव्रजे तस्मिन् नन्दगोप तथा कुरु ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 10

बाल्ये केलिकिलः सर्वो बाल्ये मुह्यति मानवः ।

बाल्ये चण्डतमः सर्वस्तत्र यत्नपरो भव ॥ २.५.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 11

न च वृन्दावने कार्यो गवां घोषः कथञ्चन ।

भेतव्यं तत्र वसतः केशिनः पापदर्शिनः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 12

सरीसृपेभ्यः कीटेभ्यः शकुनिभ्यस्तथैव च ।

गोष्ठेषु गोभ्यो वत्सेभ्यो रक्ष्यौ ते द्वाविमौ शिशू ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 13

नन्दगोप गता रात्रिः शीघ्रयानो व्रजाशुगः ।

इमे त्वां व्याहरन्तीव पक्षिणः सव्यदक्षिणाः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 14

रहस्यं वसुदेवेन सोऽनुज्ञातो महात्मना ।

यानं यशोदया सार्धमारुरोह मुदान्वितः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 15

कुमारस्कन्धवाह्यायां शिबिकायां समाहितः ।

संवेशयामास शिशुं शयनीयं महामतिः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 16

जगाम च विविक्तेन शीतलानिलसर्पिणा ।

बहूदकेन मार्गेण यमुनातीरगामिना ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 17

स ददर्श शुभे देशे गोवर्धनसमीपगे ।

यमुनातीरसम्बद्धं शीतमारुतसेवितम् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 18

विरुतश्वापदै रम्यं लतावल्लीमहाद्रुमम् ।

गोभिस्तृणविलग्नाभिः स्यन्दन्तीभिरलङ्कृतम् ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 19

समप्रचारं च गवां समतीर्थजलाशयम् ।

वृषाणां स्कन्धघातैश्च विषाणोद्घृष्टपादपम् ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 20

भासामिषादानुसृतैः श्येनैश्चामिषगृध्नुभिः ।

सृगालमृगसिंहैश्च वसामेदाशिभिर्वृतम् ॥ २.५.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 21

शार्दूलशब्दाभिरुतं नानापक्षिसमाकुलम् ।

स्वादुवृक्षफलं रम्यं पर्याप्ततृणवीरुधम् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 22

गोव्रजं गोरुतं रम्यं गोपनारीभिरावृतम् ।

हम्भारवैश्च वत्सानां सर्वतः कृतनिःस्वनम् ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 23

शकटावर्तविपुलं कण्टकीवाटसङ्कुलम् ।

पर्यन्तेष्वावृतं वन्यैर्बृहद्भिः पतितैर्द्रुमैः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 24

वत्सानां रोपितैः कीलैर्दामभिश्च विभूषितम् ।

करीषाकीर्णवसुधं कटच्छन्नकुटीमठम् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 25

क्षेम्यप्रचारबहुलं हृष्टपुष्टजनावृतम् ।

दामनीपाशबहुलं गर्गरोद्गारनिःस्वुनम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 26

तक्रनिःस्रावबहुलं दधिमण्डार्द्रमृत्तिकम् ।

मन्थानवलयोद्गारैर्गोपीनां जनितस्वनम् ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 27

काकपक्षधरैर्बालैर्गोपालक्रीडनाकुलम् ।

सार्गलद्वारगोवाटं मध्ये गोस्थानसङ्कुलम् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 28

सर्पिषा पच्यमानेन सुरभीकृतमारुतम् ।

नीलपीताम्बराभिश्च तरुणीभिरलङ्कृतम् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 29

वन्यपुष्पावतंसाभिर्गोपकन्याभिरावृतम् ।

शिरोभिर्धृतकुम्भाभिर्बद्धैरग्रस्तनाम्बरैः ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 5: गोव्रजगमनं, Verse 30

यमुनातीरमार्गेण जलहारीभिरावृतम् ।

स तत्र प्रविशन् हृष्टो गोव्रजं गोपनादितम् ॥ २.५.३०॥