हरिवंशपर्व, अध्याय 4: श्रीकृष्णजन्मनि, Verse 1
विश्न्ववतारवर्णनम् ViShNu's incarnation कंसेन देवक्याः नवजातानां शिशूनां हननम्, योगमायया देवक्याः सप्तमस्य गर्भस्य सङ्कर्षणम्, श्रीकृष्णस्य प्राकट्यं नन्दभवने प्रवेशं च, कंसेन नन्दकन्यायाः हननस्य चेष्टा एवं तस्याः दिव्यरूपस्य दर्शनम्, कंसेन क्षमाप्रार्थना एवं देवक्या तस्मै क्षमादानं वैशम्पायन उवाच ।
कृते गर्भविधाने तु देवकी देवतोपमा ।
जग्राह सप्त तान्गर्भान्यथावत् समुदाहृतान् ॥ १॥