Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 1

आर्यास्तवः Hymn to Arya आर्यायाः स्तुतिः वैशम्पायन उवाच ।

आर्यास्तवं प्रवक्ष्यामि यथोक्तमृषिभिः पुरा ।

नारायणीं नमस्यामि देवीं त्रिभुवनेश्वरीम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 2

त्वं हि सिद्धिर्धृतिः कीर्तिः श्रीर्विद्या सन्नतिर्मतिः ।

सन्ध्या रात्रिः प्रभा निद्रा कालरात्रिस्तथैव च ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 3

आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी ।

जननी सिद्धसेनस्य उग्रचारी महाबला ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 4

जया च विजया चैव पुष्टिस्तुष्टिः क्षमा दया ।

ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 5

बहुरूपा विरूपा च अनेकविधिचारिणी ।

विरूपाक्षी विशालाक्षी भक्तानां परिरक्षिणी ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 6

पर्वताग्रेषु घोरेषु नदीषु च गुहासु च ।

वासस्ते च महादेवि वनेषूपवनेषु च ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 7

शबरैर्बर्बरैश्चैव पुलिन्दैश्च सुपूजिता ।

मयूरपिच्छध्वजिनी लोकान् क्रमसि सर्वशः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 8

कुकुटैश्छागलैर्मेषैः सिंहैर्व्याघ्रैः समाकुला ।

घण्टानिनादबहुला विन्ध्यवासिन्यभिश्रुता ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 9

त्रिशूलपट्टिशधरा सूर्यचन्द्रपताकिनी ।

नवमी कृष्णपक्षस्य शुक्लस्यैकादशी तथा ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 10

भगिनी बलदेवस्य रजनी कलहप्रिया ।

आवासः सर्वभूतानां निष्ठा च परमा गतिः ॥ २.३.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 11

नन्दगोपसुता चैव देवानां विजयावहा ।

चीरवासाः सुवासाश्च रौद्री सन्ध्याचरी निशा ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 12

प्रकीर्णकेशी मृत्युश्च सुरामांसबलिप्रिया ।

लक्ष्मीरलक्ष्मीरूपेण दानवानां वधाय च ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 13

सावित्री चापि देवानां माता भूतगणस्य च ।

कन्यानां ब्रह्मचर्यं त्वं सौभाग्यं प्रमदासु च ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 14

अन्तर्वेदी च यज्ञानामृत्विजां चैव दक्षिणा ।

कर्षकाणां च सीतेति भूतानां धरणीति च ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 15

सिद्धिः सांयात्रिकाणां तु वेला त्वं सागरस्य च ॥।

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 15

यक्षाणां प्रथमा यक्षी नागानां सुरसेति च ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 16

ब्रह्मवादिन्यथो दीक्षा शोभा च परमा तथा ।

ज्योतिषां त्वं प्रभा देवि नक्षत्राणां च रोहिणी ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 17

राजद्वारेषु तीर्थेषु नदीनां सङ्गमेषु च ।

पूर्णा च पूर्णिमा चन्द्रे कृत्तिवासा इति स्मृता ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 18

सरस्वती च वाल्मीके स्मृतिर्द्वैपायने तथा ।

ऋषीणां धर्मबुद्धिस्तु देवानां मानसी तथा ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 19

सुरा देवी तु भूतेषु स्तूयसे त्वं स्वकर्मभिः ।

इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनेति च ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 20

तापसानां च देवी त्वमरणी चाग्निहोत्रिणाम् ।

क्षुधा च सर्वभूतानां तृप्तिस्त्वं दैवतेषु च ॥ २.३.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 21

स्वाहा तृप्तिर्धृतिर्मेधा वसूनां त्वं वसूमती ।

आशा त्वं मानुषाणां च पुष्टिश्च कृतकर्मणाम् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 22

दिशश्च विदिशश्चैव तथा ह्यग्निशिखा प्रभा ।

शकुनी पूतना त्वं च रेवती च सुदारुणा ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 23

निद्रापि सर्वभूतानां मोहिनी क्षत्रिया तथा ।

विद्यानां ब्रह्मविद्या त्वमोङ्कारोऽथ वषट् तथा ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 24

नारीणां पार्वतीं च त्वां पौराणीमृषयो विदुः ।

अरुन्धती च साध्वीनां प्रजापतिवचो यथा ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 25

पर्यायनामभिर्दिव्यैरिन्द्राणी चेति विश्रुता ।

त्वया व्याप्तमिदं सर्वं जगत् स्थावरजङ्गमम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 26

सङ्ग्रामेषु च सर्वेषु अग्निप्रज्वलितेषु च ।

नदीतीरेषु चौरेषु कान्तारेषु भयेषु च ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 27

प्रवासे राजबन्धे च शत्रूणां च प्रमर्दने ।

प्रणात्ययेषु सर्वेषु त्वं हि रक्षा न संशयः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 28

त्वयि मे हदयं देवि त्वयि चित्तं मनस्त्वयि ।

रक्ष मां सर्वपापेभ्यः प्रसादं कर्तुमर्हसि ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 3: स्वप्नगर्भविधाने, Verse 29

इमं यः सुस्तवं दिव्यमिति व्यासप्रकल्पितम् ।

यः पठेत् प्रातरुत्थाय शुचिः प्रयतमानसः ॥ २९॥