Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे

Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 1

कंससंकेतः आर्यानुशासनं च KaMsa's fear, and viShNu's instruction to yogamAya वैशम्पायन उवाच ।

सोऽज्ञापयतसंरब्धः सचिवानान्मनो हि तान् ।

यत्ता भवत सर्वे वै देवक्या गर्भकृन्तने ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 2

प्रथमादेव हन्तव्या गर्भास्ते सप्त एव हि ।

मूलादेव तु हन्तव्यः सोऽनर्थो यत्र संशयः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 3

देवकी च गृहे गुप्ता प्रच्छन्नैरभिरक्षिता ।

स्वैरं चरतु विश्रब्धा गर्भकाले तु रक्ष्यताम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 4

मासान् वै पुष्पमासादीन्गणयन्तु मम स्त्रियः ।

परिणामे तु गर्भस्य शेषं ज्ञास्यामहे वयम् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 5

वसुदेवस्तु संरक्ष्यः स्त्रीसनाथासु भूमिषु ।

अप्रमत्तैर्मम हितै रात्रावहनि चैव हि ।

- स्त्रीभिर्वर्षवरैश्चैव वक्तव्यं न तु कारणम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 6

एष मानुष्यको यत्नो मानुषैरेव साध्यते ।

श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 7

मन्त्रग्रामैः सुविहितैरौषधैश्च सुयोजितैः ।

यस्तेन चानुकूलेन दैवमप्यनुलोम्यते ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 8

वैशम्पायन उवाच ।

एवं स यत्नवान् कंसो देवकीगर्भकृन्तने ।

भयेन मन्त्रयामास श्रुतार्थो नारदात्स वै ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 9

एवं श्रुत्वा प्रयत्नं वै कंसस्यारिष्टसंज्ञितम् ।

अन्तर्धानं गतो विष्णुश्चिन्तयामास वीर्यवान् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 10

सप्तेमान् देवकीगर्भान् भोजपुत्रो वधिष्यति ।

अष्टमे च मया गर्भे कार्यमाधानमात्मनः ॥ २.२.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 11

तस्य चिन्तयतस्त्वेवं पातालमगमन्मनः ।

यत्र ते गर्भशयनाः षड्गर्भा नाम दानवाः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 12

विक्रान्तवपुषो दीप्तास्तेऽमृतप्राशनोपमाः ।

अमरप्रतिमा युद्धे पुत्रा वै कालनेमिनः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 13

ते ताततातं सन्त्यज्य हिरण्यकशिपुं पुरा ।

उपासाञ्चक्रिरे दैत्याः पुरा लोकपितामहम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 14

तप्यमानास्तपस्तीव्रं जटामण्डलधारिणः ।

तेषां प्रीतोऽभवद् ब्रह्मा षड्गर्भाणां वरं ददौ ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 15

ब्रह्मोवाच ।

भो भो दानवशार्दूलास्तपसाहं सुतोषितः ।

ब्रूत वो यस्य यः कामस्तस्य तं तं करोम्यहम् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 16

ते तु सर्वे समानार्था दैत्या ब्रह्माणमब्रुवन् ।

यदि नो भगवान् प्रीतो दीयतां नो वरो वरः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 17

अवध्याः स्याम भगवन् दैवतैः समहोरगैः ।

शापप्रहरणैश्चैव स्वस्ति नोऽस्तु महर्षिभिः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 18

यक्षगन्धर्वपतिभिः सिद्धचारणमानवैः ।

मा भूद् वधो नो भगवन्ददासि यदि नो वरम् ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 19

तानुवाच ततो ब्रह्मा सुप्रीतेनान्तरात्मना ।

भवद्भिर्यदिदं प्रोक्तं सर्वमेतद् भविष्यति ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 20

षड्गर्भाणां वरं दत्त्वा स्वयम्भूस्त्रिदिवं गतः ।

ततो हिरण्यकशिषुः सरोषो वाक्यमब्रवीत् ॥ २.२.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 21

मामुन्मृज्य वरो यस्माद्धृतो वः पद्मसम्भवात् ।

तस्माद् वस्त्याजितः स्नेहः शत्रुभूतांस्त्यजाम्यहम् ।२१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 22

षङ्गर्भा इति योऽयं वः शब्दः पित्राभिवर्धितः ।

स एव वो गर्भगतान् पिता सर्वान्वधिष्यति ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 23

षडेव देवकीगर्भे षड्गर्भा वै महासुराः ।

भविष्यथ ततः कंसो गर्भस्थान्वो वधिष्यति ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 24

वैशम्पायन उवाच ।

जगामाथ ततो विष्णुः पातालं यत्र तेऽसुराः ।

षङ्गर्भाः संयताः सन्ति जले गर्भगृहेशयाः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 25

सन्ददर्श जले सुप्तान् षड्गर्भान् गर्भसंस्थितान् ।

निद्रया कालरूपिण्या सर्वानन्तर्हितान्स वै ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 26

स्वप्नरूपेण तेषां वै विष्णुर्देहानथाविशत् ।

प्राणेश्वरांश्च निष्कृष्य निद्रायै प्रददौ तदा ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 27

तां चोवाच ततो निद्रां विष्णुः सत्यपराक्रमः ।

गच्छ निद्रे मयोत्सृष्टा देवकीभवनान्तिकम् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 28

इमान्प्राणेश्वरान् गृह्य षड्गर्भान् दानवोत्तमान् ।

षङ्गर्भान् देवकोगर्भे योजयस्व यथाक्रमम् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 29

जातेष्वेतेषु गर्भेषु नीतेषु च यमक्षयम् ।

कंसस्य विफले यत्ने देवक्याः सफले श्रमे ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 2: भारावतरणे, Verse 30

प्रसादं ते करिष्यामि मत्प्रभावसमं भुवि ।

येन सर्वस्य लोकस्य देवि देवी भविष्यसि ॥ २.२.३०॥