Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 1

हरिवंशपर्व सम्पूर्ण ।

विष्णुपर्वः) श्रीपरमात्मने नमः ।

नारदागमनम् Advent of nArada and kaMsa's response मङ्गलाचरणम्, नारदस्य मथुरायां आगत्वा कंसाय भावी भयस्य कथनम्, कंसस्य अनर्गल वार्तालापं नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 1

वैशम्पायन उवाच ।

ज्ञात्वा विष्णुं क्षितिगतं भागांश्च त्रिदिवौकसाम् ।

विनाशशंसी कंसस्य नारदो मथुरां ययौ ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 2

त्रिविष्टपादापतितो मथुरोपवने स्थितः ।

प्रेषयामास कंसस्य दूतं स मुनिपुङ्गवः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 3

स दूतः कथयामास मुनेरागमनं वने ।

स नारदस्यागमनं श्रुत्वा त्वरितविक्रमः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 4

निर्जगामासुरः कंसः स्वपुर्याः पद्मलोचनः ।

स ददर्शातिथिं श्लाघ्यं देवर्षिं वीतकल्मषम् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 5

तेजसा ज्वलनाकारं वपुषा सूर्यवर्चसम् ।

सोऽभिवाद्यर्षये तस्मै पूजां चक्रे यथाविधि ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 6

आसनं चाग्निवर्णाभं विसृज्योपजहार सः ।

निषसादासने तस्मिन् स वै शक्रसखो मुनिः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 7

उवाच चोग्रसेनस्य सुतं परमकोपनम् ।

पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 8

यते त्वेवं मम वचः श्रूयतां गृह्यतां त्वया ।

अनुसृत्य दिवोलोकानहं ब्रह्मपुरोगमान् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 9

गतः सूर्यसखं तात विपुलं मेरुपर्वतम् ।

सनन्दनवनं चैव दृष्ट्वा चैत्ररथं वनम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 10

आप्लुतं सर्वतीर्थेषु सरित्सु सह दैवतैः ।

दिव्या त्रिधारा दृष्टा मे पुण्या त्रिपथगा नदी ॥ २.१.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 11

स्मरणादेव सर्वेषामंहसा या विभेदिनी ।

उपस्पृष्टं च तीर्थेषु दिव्येषु च यथाक्रमम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 12

दृष्टं मे ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ।

देवगन्धर्वनिर्घोषैरप्सरोभिश्च नादितम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 13

सोऽहं कदाचिद् देवानां समाजे मेरुमूर्धनि ।

सङ्गृह्य वीणां संसक्तामगच्छं ब्रह्मणः सभाम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 14

सोऽहं तत्र सितोष्णीषान् नानारत्नविभूषितान् ।

दिव्यासनगतान् देवानपश्यं सपितामहान् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 15

तत्र मन्त्रयतामेवं देवतानां मया श्रुतः ।

भवतः सानुगस्यैव वधोपायः सुदारुणः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 16

तत्रैषा देवकी या ते मथुरायां लघुस्वसा ।

योऽस्यां गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 17

देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।

परं रहस्यं देवानां स ते मृत्युर्भविष्यति ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 18

परश्चैवापरस्तेषां स्वयम्भूश्च दिवौकसाम् ।

ततस्ते तन्महद्भूतं दिव्यं च कथयाभ्यहम् ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 19

श्लाघ्यश्च स हि ते मृत्युर्भूतपूर्वश्च तं स्मर ।

यत्नश्च क्रियतां कंस देवक्या गर्भकृन्तने ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 20

एषा मे त्वद्गता प्रीतिर्यदर्थं चाहमागतः ।

भुज्यन्तां सर्वकामार्थाः स्वस्ति तेऽस्तु व्रजाम्यहम् ।२.१.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 21

इत्युक्त्वा नारदे याते तस्य वाक्यं विचिन्तयन् ।

जहासोच्चैस्ततः कंसः प्रकाशदशनश्चिरम् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 22

प्रोवाच सस्मितं चैव भृत्यानामग्रतः स्थितः ।

हास्यः खलु स सर्वेषु नारदो न विशारदः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 23

नाहं भीषयितुं शक्यो देवैरपि सवासवैः ।

आसनस्थः शयानो वा प्रमत्तो मत्त एव च ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 24

योऽहं दोर्भ्यामुदाराभ्यां क्षोभयेयं धरामिमाम् ।

कोऽस्ति मां मानुषे लोके यः क्षोभयितुमुत्सहेत् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 25

अद्यप्रभृति देवानामेवं देवानुवर्तिनाम् ।

नृपक्षिपशुसङ्घानां करोमि कदनं महत् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 26

आज्ञाप्यतां हयः केशी प्रलम्बो धेनुकस्तथा ।

अरिष्टो वृषभश्चैव पूतना कालियस्तथा ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 27

अटध्वं पृथिवीं कृत्स्नां यथेष्टं कामरूपिणः ।

प्रहरध्वं च सर्वेषु येऽस्माकं पक्षदूषकाः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 28

गर्भस्थानामपि गतिर्विज्ञेया चैव देहिनाम् ।

नारदेन हि गर्भेभ्यो भयं नः समुदाहृतम् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 1: नारदागमने, Verse 29

भवन्तो हि यथाकामं मोदन्तां विगतज्वराः ।

मां च वो नाथमाश्रित्य नास्ति देवकृतं भयम् ॥ २९॥