हरिवंशपर्व, अध्याय 55: पितामहवाक्ये, Verse 1
पितामहवाक्यम् Brahma's reply to viShNu भगवतः विष्णुना नारदस्य कथनस्योत्तरं, ब्रह्मणा भगवन्तं तस्य अवतारतारयोग्यस्थानस्य एवं पितामातादीनां परिचयं वैशम्पायन उवाच ।
नारदस्य वचः श्रुत्वा सस्मितं मधुसूदनः ।
प्रत्युवाच शुभं वाक्यं वरेण्यः प्रभुरीश्वरः ॥ १॥