हरिवंशपर्व, अध्याय 54: नारदवाक्ये, Verse 1
नारदवाक्यम् NArada's appeal to viShNu भगवतः विष्णोः प्रति देवर्षेः नारदस्य वचनं - भूर्लोकस्य वर्तमानावस्थायाः परिचयं दत्त्वा भगवन्तं अवतारग्रहणाय प्रेरणं वैशम्पायन उवाच ।
कृतकार्ये गते काले जगत्यां च यथानयम् ।
अंशावतरणे वृत्ते सुराणां भारते कुले ॥ १॥