Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे

Containing 79 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 1

अंशावतरणम् Prototypal incarnations of gods ब्रह्मणः आज्ञया देवानां अंशावतरणं वैशम्पायन उवाच ।

ते श्रुत्वा पृथिवीवाक्यं सर्व एव दिवौकसः ।

तदर्थकृत्यं सञ्चिन्त्य पितामहमथाब्रुवन् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 2

भगवन् ह्रियतामस्या धरण्या भारसन्ततिः ।

शरीरकर्ता लोकानां त्वं हि लोकस्य चेश्वरः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 3

यत् कर्तव्यं महेन्द्रेण यमेन वरुणेन च ।

यद् वा कार्यं धनेशेन स्वयं नारायणेन वा ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 4

यद् वा चन्द्रमसा कार्यं भास्करेणानिलेन वा ।

आदित्यैर्वसुभिर्वापि रुद्रैर्वा लोकभावनैः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 5

अश्विभ्यां देववैद्याभ्यां साध्यैर्वा त्रिदशालयैः ।

बृहस्पत्युशनोभ्यां वा कालेन कलिनापि वा ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 6

महेश्वरेण वा ब्रह्मन् विशाखेन गुहेन वा ।

यक्षराक्षसगन्धर्वैश्चारणैर्वा महोरगैः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 7

पतङ्गैः पर्वतैश्चापि सागरैर्वा महोर्मिभिः ।

गङ्गामुखाभिर्दिव्याभिः सरिद्भिर्वा सुरेश्वर ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 8

शीघ्रमाज्ञापय विभो कथमंशः प्रयुज्यताम् ।

यदि ते पार्थिवं कार्यं कार्यं पार्थिवविग्रहे ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 9

कथमंशावतरणं कुर्मः सर्वे पितामह ।

अन्तरिक्षगता ये च पृथिव्यां पार्थिवाश्च ये ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 10

सदस्यानां च विप्राणां पार्थिवानां कुलेषु च ।

अयोनिजाश्चैव तनूः सृजामो जगतीतले ॥ १.५३.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 11

सुराणामेककार्याणां श्रुत्वैतन्तिश्चितं मतम् ।

देवैः परिवृतः प्राह वाक्यं लोकपितामहः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 12

रोचते मे सुरश्रेष्ठा युष्माकमपि निश्चयः ।

सृजध्वं स्वशरीरांशांस्तेजसाऽऽत्मसमान्भुवि ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 13

सर्व एव सुरश्रेष्ठास्तेजोभिरवरोहत ।

भावयन्तो भुवं देवीं लब्ध्वा त्रिभुवनश्रियम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 14

पार्थिवे भारते वंशे पूर्वमेव विजानता ।

पृथिव्यां सम्भ्रममिमं श्रूयतां यन्मया कृतम् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 15

समुद्रेऽहं पुरा पूर्वे वेलामासाद्य पश्चिमाम् ।

आसं सार्धं तनूजेन कश्यपेन महात्मना ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 16

कथाभिः पूर्ववृत्ताभिर्लोकवेदानुगामिभिः ।

इतिवृत्तैश्च बहुभिः पुराणप्रभवैर्गुणैः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 17

कुर्वतस्तु कथास्तास्ताः समुद्रः सह गङ्गया ।

समीपमाजगामाशु युक्तस्तोयदमारुतैः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 18

स वीचिविषमा कुर्वन् गतिं वेगतरङ्गिणीम् ।

यादोगणविचित्रेण सच्छन्नस्तोयवाससा ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 19

शङ्खमुक्तामलतनुः प्रवालमणिभूषणः ।

युक्तश्चन्द्रमसा पूर्णः साभ्रगम्भीरनिःस्वनः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 20

स मां परिभवन्नेव स्वां वेलां समतिक्रमन् ।

क्लेदयामास चपलैर्लावणैरम्बुविस्रवैः ॥ १.५३.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 21

तं च देशं व्यवसितः समुद्रोऽद्भिर्विमर्दितुम् ।

उक्तः संरब्धया वाचा शान्तोऽसीति मया तदा ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 22

शान्तोऽसीत्युक्तमात्रस्तु तनुत्वं सागरो गतः ।

संहतोर्मितरङ्गौघः स्थितो राजश्रिया ज्वलन् ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 23

भूयश्चैव मया शप्तः समुद्रः सह गङ्गया ।

सकारणां मतिं कृत्वा युष्माकं हितकाम्यया ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 24

यस्मात् त्वं राजतुल्येन वपुषा समुपस्थितः ।

गच्छार्णव महीपालो राजेव त्वं भविष्यसि ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 25

तत्रापि सहजां लीलां धारयन् स्वेन तेजसा ।

भविष्यसि नृणां भर्ता भारतानां कुलोद्वहः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 26

शान्तोऽसीति मयोक्तस्त्वं यच्चासि तनुतां गतः ।

सुतनुर्यशसा लोके शान्तनुस्त्वं भविष्यसि ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 27

इयमप्यायतापाङ्गी गङ्गा सर्वाङ्गशोभना ।

रूपिणी च सरिच्छ्रेष्ठा तत्र त्वामुपयास्यति ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 28

एवमुक्तस्तु मां क्षुब्धः सोऽभिवीक्ष्यार्णवोऽब्रवीत् ।

मां प्रभो देवदेवानां किमर्थं शप्तवानसि ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 29

अहं तव विधेयात्मा त्वत्कृतस्त्वत्परायणः ।

अशपोऽसदृशैर्वाक्यैरात्मजं मां किमात्मना ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 53: देवानामंशावतरणे, Verse 30

भगवंस्त्वत्प्रसादेन वेगात् पर्वणि वर्धितः ।

यद्यहं चलितो ब्रह्मन् कोऽत्र दोषो ममात्मनः ॥ १.५३.३०॥