Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने

Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 1

नारायणाश्रमवर्णनम् Description of the reclusion of nArAyaNa पञ्चाशत्तमोऽप्यायः नारायणाश्रमे भगवतः विष्णोः शयनं उत्थानं च, निकटवर्तिभ्यः ब्रह्मादि देवेभ्यः तेषां आगमनस्य प्रयोजनस्य पृच्छा ।

वैशम्पायन उवाच ।

ऋषिभिः पूजितस्तैस्तु विवेश हरिरीश्वरः ।

पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रमम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 2

स तद् विवेश हृष्टात्मा तानामन्त्र्य सदोगतान् ।

प्रणम्य चादिदेवाय ब्रह्मणे पद्मयोनये ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 3

स्वेन नाम्ना परिज्ञातं स तं नारायणाश्रमम् ।

प्रविशन्नेव भगवानायुधानि व्यसर्जयत् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 4

स तत्राम्बुपतिप्रख्यं ददर्शालयमात्मनः ।

स्वधिष्ठितं देवगणैः शाश्वतैश्च महर्षिभिः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 5

संवर्तकाम्बुदोपेतं नक्षत्रस्थानसङ्कुलम् ।

तिमिरौघपरिक्षिप्तमप्रधृष्यं सुरासुरैः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 6

न तत्र विषयो वायोर्नेन्दोर्न च विवस्वतः ।

वपुषः पद्मनाभस्य स देशस्तेजसाऽऽवृतः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 7

स तत्र प्रविशन्नेव जटाभारं समुद्वहन् ।

सहस्रशीर्षो भूत्वा तु शयनायोपचक्रमे ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 8

लोकानामन्तकालज्ञा काली नयनशालिनी ।

उपतस्थे महात्मानं निद्रा तं कालरूपिणी ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 9

स शिश्ये शयने दिव्ये समुद्राम्भोदशीतले ।

हरिरेकार्णवोक्तेन व्रतेन व्रतिनां वरः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 10

तं शयानं महात्मानं भवाय जगतः प्रभुम् ।

उपासाञ्चक्रिरे विष्णुं देवाः सर्षिगणास्तथा ॥ १.५०.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 11

तस्य सुप्तस्य शुशुभे नाभिमध्यात्समुत्थितम् ।

आद्यं तस्यासनं पद्मं ब्रह्मणः सूर्यवर्चसम् ।

सहस्रपत्रं वर्णाढ्यं सुकुमारं सुपुष्पितम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 12

ब्रह्मसूत्रोद्यतकरः स्वपन्नेव महामुनिः ।

आवर्तयति लोकानां सर्वेषां कालपर्ययम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 13

विवृतात् तस्य वदनान्निःश्वासपवनेरिताः ।

प्रजानां पङ्क्तयो ह्युच्चैर्निष्पतन्त्युत्पतन्ति च ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 14

ते सृष्टाःप्राणिनो मेध्या विभक्ता ब्रह्मणा स्वयम् ।

चतुर्धा स्वां गतिं जग्मुः कृतान्तोक्तेन कर्मणा ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 15

न तं वेद स्वयं ब्रह्मा नापि ब्रह्मर्षयोऽव्ययाः ।

विष्णोर्निद्रामयं योगं प्रविष्टं तमसावृतम् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 16

ते तु ब्रह्मर्षयः सर्वे पितामहपुरोगमाः ।

न विदुस्तं क्वचित् सुप्तं क्वचिदासीनमासने ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 17

जागर्ति कोऽत्र कः शेते कश्च शक्तश्च नेङ्गते ।

को भोगवान्कोद्युतिमान्कृष्णात्कृष्णतरश्च कः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 18

विमृशन्ति स्म तं देवा दिव्याभिरुपपत्तिभिः ।

न चैनं शेकुरन्वेष्टुं कर्मतो जन्मतोऽपि वा ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 19

गाथाभिस्तत्प्रदिष्टाभिर्ये तस्य चरितं विदुः ।

पुराणास्तं पुराणेषु ऋषयः सम्प्रचक्षते ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 20

श्रूयते चास्य चरितं देवेष्वपि पुरातनम् ।

महापुराणात् प्रभृति परं तस्य न विद्यते ॥ १.५०.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 21

यच्चास्य देवदेवस्य चरितं स्वप्रभावजम् ।

तेनेमाः श्रुतयो व्याप्ता वैदिक्यो लौकिकाश्च याः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 22

भवकाले भवत्येष लोकानां लोकभावनः ।

दानवानामभावाय जागर्ति मधुसूदनः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 23

यत्रैनं वीक्षितुं देवा न शेकुः सुप्तमव्ययम् ।

ततः स्वपिति घर्मान्ते जागर्ति जलदक्षये ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 24

स हि वेदाश्च यज्ञाश्च यज्ञाङ्गानि च सर्वशः ।

या तु यज्ञगतिः प्रोक्ता स एष पुरुषोत्तमः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 25

तस्मिन् सुप्ते न वर्तन्ते मन्त्रपूताः क्रतुक्रियाः ।

शरत्प्रवृत्तयज्ञोऽयं जागर्ति मधुसूदनः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 26

तदिदं वार्षिकं चक्रं कारयत्यम्बुदेश्वरः ।

वैष्णवं कर्म कुर्वाणः सुप्ते विष्णौ पुरन्दरः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 27

या ह्येषा गह्वरा माया निद्रेति जगति स्थिता ।

साकस्माद् द्वेषिणी घोरा कालरात्रिर्महीक्षिताम् ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 28

तस्यास्तनुस्तमोद्वारा निशा दिवसनाशिनी ।

जीवितार्धहरा घोरा सर्वप्राणभृतां भुवि ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 29

नैतया कश्चिदाविष्टो जृम्भमाणो मुहुर्मुहुः ।

शक्तः प्रसहितुं वेगं मज्जन्निव महार्णवे ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 50: विष्णोर्योगशयनोत्थाने, Verse 30

अन्नजा भुवि मर्त्यानां श्रमजा वा कथञ्चन ।

सैषा भवति लोकस्य निद्रा सर्वस्य लौकिकी ॥ १.५०.३०॥