Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 1

लोकवर्णनम् An account of the worlds ब्रह्मलोके भगवतः विष्णोः सत्कारं जनमेजय उवाच ।

ब्रह्मणा देवदेवेन सार्धं सलिलयोनिना ।

ब्रह्मलोकगतो ब्रह्मन् वैकुण्ठः किं चकार ह ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 2

किमर्थे चादिदेवेन नीतः कमलयोनिना ।

विष्णुर्दैत्यवधे वृत्ते देवैश्च कृतसत्क्रियः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 3

ब्रह्मलोके च किं स्थानं कं वा योगमुपास्त सः ।

कं वा दधार नियमं स विभुर्भूतभावनः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 4

कथं तस्याऽऽसतस्तत्र विश्वं जगदिदं महत् ।

श्रियमाप्नोति विपुलां सुरासुरनरार्चिताम् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 5

कथं स्वपिति घर्मान्ते बुध्यते चाम्बुदप्लवे ।

कथं च ब्रह्मलोकस्थो धुरं वहति लौकिकीम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 6

चरितं तस्य विप्रेन्द्र दिव्यं भगवतो दिवि ।

विस्तरेण यथातत्त्वं सर्वमिच्छामि वेदितुम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 7

वैशम्पायन उवाच ।

श‍ृणु नारायणस्यादौ विस्तरेण प्रवृत्तयः ।

ब्रह्मलोकं यथारूढो ब्रह्मणा सह मोदते ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 8

कामं तस्य गतिः सूक्ष्मा देवैरपि दुरासदा ।

यत् तु वक्ष्याम्यहं राजंस्तन्मे निगदतः श‍ृणु ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 9

एष लोकमयो देवो लोकाश्चैतन्मयास्त्रयः ।

एष देवमयश्चैव देवाश्चैतन्मया दिवि ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 10

तस्य पारं न पश्यन्ति बहवः पारचिन्तकाः ।

एष पारं परं चैव लोकानां वेद माधवः ॥ १.४९.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 11

अस्य देवान्धकारस्य मार्गितव्यस्य दैवतैः ।

श‍ृणु वै यत्तदा वृत्तं ब्रह्मलोके पुरातनम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 12

स गत्वा ब्रह्मणो लोकं दृष्ट्वा पैतामहं पदम् ।

ववन्दे तानृषीन् सर्वान् विष्णुरार्षेण कर्मणा ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 13

सोऽग्निं प्राक्सवने दृष्ट्वा हूयमानं महर्षिभिः ।

अवन्दत महातेजाः कृत्वा पौर्वाह्णिकीं क्रियाम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 14

स ददर्श मखेष्वाज्यैरिज्यमानं महर्षिभिः ।

भागं यज्ञियमश्नानं स्वदेहमपरं स्थितम् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 15

अभिवाद्याभिवाद्यानामृषीणां ब्रह्मवर्चसाम् ।

परिचक्राम सोऽचिन्त्यो ब्रह्मलोकं सनातनम् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 16

स ददर्शोच्छ्रितान् यूपांश्चषालाग्रविभूषितान् ।

मखेषु च ब्रह्मर्षिभिः शतशः कृतलक्षणान् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 17

आज्यधूमं समाघ्राय श‍ृण्वन्वेदान्द्विजेरितान् ।

यज्ञैरिज्यन्तमात्मानं पश्यंस्तत्र चचार ह ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 18

ऊचुस्तमृषयो देवाः सदस्याः सदसि स्थिताः ।

अर्घ्योद्यतभुजाः सर्वे पवित्रान्तरपाणयः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 19

देवेषु वर्तते यद् वै तद्धि सर्वं जनार्दनात् ।

यत्प्रवृत्तं च देवेभ्यस्तद्विद्धि मधुसूदनात् ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 20

अग्नीषोममयं लोकं यं विदुर्विदुषो जनाः ।

तं सोममग्निं लोकं च वेद विष्णुं सनातनम् ॥ १.४९.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 21

क्षीराद् यथा दधि भवेद्दध्नः सर्पिर्भवेद् यथा ।

मथ्यमानेषु भूतेषु तथा लोको जनार्दनात् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 22

यथेन्द्रियैश्च भूतैश्च परमात्मा विधीयते ।

तथा देवैश्च वेदैश्च लोकैश्च विहितो हरिः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 22

यथा भूतेन्द्रियावाप्तिर्विहिता भुवि देहिनाम् ।

तथा प्राणेश्वरावाप्तिर्देवानां दिवि वैष्णवी ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 24

सत्रिणां सत्रफलदः पवित्रं परमात्मवान् ।

लोकतन्त्रधरो ह्येष मन्त्रैमन्त्र इवोच्यते ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 25

ऋषय ऊचुः ।

स्वागतं ते सुरश्रेष्ठ पद्मनाभ महाद्युते ।

इदं यज्ञियमातिथ्यं मन्त्रतः प्रतिगृह्यताम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 26

त्वमस्य यज्ञपूतस्य पात्रं पाद्यस्य पावनः ।

अतिथिस्त्वं हि मन्त्रोक्तः स दृष्टः सततं मतः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 27

त्वयि योद्धुं गते विष्णौ न प्रावर्तन्त नः क्रियाः ।

अवैष्णवस्य यज्ञस्य न हि कर्म विधीयते ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 28

सदक्षिणस्य यज्ञस्य त्वत्प्रसूतिः फलं लभेत् ।

अद्यात्मानमिहास्माभिरिज्यमानं निरीक्षसे ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 49: लोकवर्णनं, Verse 29

एवमस्त्विति तान्सर्वान्भगवान्प्रत्यपूजयत् ।

मुमुदे ब्रह्मलोकस्थो ब्रह्मा लोकपितामहः ॥ २९॥