Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे

Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 1

दैत्यपराजयः Of demons defeat इन्द्रेण चन्द्रमसः स्तुतिः, चन्द्रेण एवं वरुणेन दैत्यसैन्यस्य संहारः, मयदानवेन मायायाः प्रयोगः, दैत्यसैन्येन सह पवनस्य एवं अग्निदेवस्य सङ्ग्रामम्, कालनेमिनः रणे आगमनम् ।

इन्द्रद्वारा चन्द्रमाकी स्तुति, चन्द्रदेव और वरुणदेवके द्वारा दैत्यसेनाका संहार, मयदानवद्वारा मायाका प्रयोग, पवन और अग्निदेवका दैत्यसेनाके साथ सङ्ग्राम और कालनेमिका रणमे आगमन वैशम्पायन उवाच ।

एवमस्त्विति संहृष्टः शक्रस्त्रिदशवर्द्धनः ।

सन्दिदेशाग्रतः सोमं युद्धाय शिशिरायुधम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 2

शक्र उवाच ।

गच्छ सोम सहायत्वं कुरु पाशधरस्य वै ।

असुराणां विनाशाय जयाय च दिवौकसां २ ॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 3

त्वमप्रतिमवीर्यश्च ज्योतिषां चेश्वरेश्वरः ।

त्वन्मयं सर्वलोकानां रसं रसविदो विदुः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 4

क्षयवृद्धी तवाव्यक्ते सागरस्येव मण्डले ।

परिवर्तस्यहोरात्रं कालं जगति योजयन् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 5

लोकच्छायामयं लक्ष्म तवाङ्के शशसंशितम् ।

न विदुः सोमदेवाऽपि ये च नक्षत्रयोगिनः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 6

त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरि स्थितः ।

तमश्चोत्सार्य वपुषा भासयस्यखिलं जगत् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 7

श्वेतभानुर्हिमतनुर्ज्योतिषामधिपः शशी ।

अब्दकृत्कालयोगात्मा ईज्यो यज्ञ्ररसोऽव्ययः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 8

ओषधीशः क्रियायोनिरम्भोयोनिरनुष्णभाक् ।

शीतांशुरमृताधारश्चपलः श्वेतवाहनः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 9

त्वं कान्तिः कान्तवपुषां त्वं सोमः सोमवृत्तिनाम् ।

सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 10

तद् गच्छ त्वं सहानेन वरुणेन वरूथिना ।

शमयस्वासुरीं मायां यया दह्याम सङ्गरे ॥ १.४६.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 11

सोम उवाच ।

यन्मां वदसि युद्धार्थे देवराज जगत्पते ।

एष वर्षामि शिशिरं दैत्यमायापकर्षणम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 12

एतान्मच्छीतनिर्दग्धान्पश्य त्वं हिमवेष्टितान् ।

विमायान् विमदांश्चैव दानवांस्त्वं महामृधे ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 13

वैशम्पायन उवाच ।

ततो हिमकरोत्सृष्टाः सबाष्पा हिमवृष्टयः ।

वेष्टयन्ति स्म तान्घोरान्दैत्यान् मेघगणा इव ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 14

तौ पाशशुक्लांशुधरौ वरुणेन्दू महारणे ।

जघ्नतुर्हिमपातैश्च पाशघातैश्च दानवान् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 15

द्वावम्बुनाथौ समरे तौ पाशहिमयोधिनौ ।

मृधे चेरतुरम्भोभिः क्षुब्धाविव महार्णवौ ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 16

ताभ्यामाप्लावितं सैन्यं तद् दानवमदृश्यत ।

जगत् संवर्तकाम्भोदैः प्रवृष्टैरिव संवृतम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 17

तावुद्यतांशुपाशौ द्वौ शशाङ्कवरुणौ रणे ।

शमयामासतुर्मायां देवौ दैतेयनिर्मिताम् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 18

शीतांशुजयनिर्दग्धाः पाशैश्च प्रसिता रणे ।

न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 19

शीतांशुनिहतास्ते तु पेतुर्दैत्या हिमार्दिताः ।

हिमप्रावृतसर्वाङ्गा निरूष्माण इवाग्नयः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 20

तेषां तु दिवि दैत्यानां विपरीतप्रभाणि च ।

विमानानि विचित्राणि निपतन्त्युत्पतन्ति च ॥ १.४६.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 21

तान् पाशहस्तग्रथिताञ्च्छादितान्हिमरश्मिना ।

मयो ददर्श मायावी दानवान् दिवि दानवः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 22

स शिलाजालविततां गण्डशैलाट्टहासिनीम् ।

पादपोत्कटकूटाग्रां कन्दराकीर्णकाननाम् ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 23

सिंहव्याघ्रगजाकीर्णां नदन्तीमिव यूथपैः ।

ईहामृगगणाकीर्णां पवनाघूर्णितद्रुमाम् ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 24

निर्मितां स्वेन पुत्रेण क्रौञ्चेन दिविकामगाम् ।

प्रथितां पार्वतीं मायां ससृजे दानवोत्तमः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 25

सास्मशब्दैः शिलावर्षैः सम्पतद्भिश्च पादपैः ।

निजघ्ने देवसङ्घांस्तान् दानवांश्चाप्यजीवयत् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 26

नैशाकरी वारुणी च मायेऽन्तर्दधतस्ततः ।

अश्मभिश्चायसघनैः कीर्णा देवगणा रणे ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 27

साश्मसङ्घातविषमा द्रुमपर्वतसङ्कटा ।

अभवद् घोरसञ्चारा पृथिवी पर्वतैरिव ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 28

नानाहतोऽश्मभिः कश्चिच्छिलाभिश्चाप्यताडितः ।

नानिरुद्धो द्रुमगणैर्देवोऽदृश्यत संयुगे ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 29

तदपभ्रष्टधनुषं भग्नप्रहरणाविलम् ।

निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरम् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 46: कालनेमिप्रक्रमणे, Verse 30

स हि युद्धगतः श्रीमानीशो न स्म व्यकम्पत ।

सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः ॥ १.४६.३०॥