Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 1

दैत्यसेनवर्णनम् About the army of daityAs together with deva-s kashyapa and aditi go to brahma देवेभिः सार्द्धं युद्धाय उद्यतस्य दैत्यसैन्यस्य वर्णनं वैशम्पायन उवाच ।

ततो भयं विष्णुमयं श्रुत्वा दैतेयदानवाः ।

उद्योगं विपुलं चक्रुर्युद्धाय युधि दुर्जयाः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 2

मयस्तु काञ्चनमयं त्रिनल्वान्तरमव्ययम् ।

चतुश्चक्रं विक्रमन्तं सुकल्पितमहायुधम् ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 3

किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् ।

खचितं रत्नजालैश्च हेमजालैश्च भूषितम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 4

स्वक्षं रथवरोदग्रं सूपस्थानमगोपमम् ।

ईहामृगगणाकीर्णं पक्षिभिश्च विराजितम् ।

दिव्यास्त्रतूणीरधरं पयोधरनिनादितम् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 5

गदापरिघसम्पूर्णं मूर्तिमन्तमिवार्णवम् ।

हेमकेयूरवलयं स्वर्णमण्डलकूबरम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 6

सपताकध्वजोदग्रं सादित्यमिव मन्दरम् ।

गजेन्द्राम्भोदसदृशं लम्बकेसरवर्चसम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 7

युक्तमृक्षसहस्रेण सहस्राम्बुदनादितम् ।

दीप्तमाकाशगं दिव्यं रथं पररथारुजम् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 8

अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् ।

तारस्तु क्रोशविस्तारमायसं वायसध्वजम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 9

शैलोत्करसमाकीर्णं नीलाञ्जनचयोपमम् ।

काललोहाष्टचरणं लोहेषायुगकूबरम् ।

तिमिराङ्गारकिरणं गर्जन्तमिव तोयदम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 10

लोहजालेन महता सगवाक्षेण दंशितम् ।

आयसैः परिघैः कीर्णं क्षेपणीयैस्तथाश्मभिः ॥ १.४३.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 11

प्रासैः पाशैश्च विततैरवसक्तैश्च मुद्गरैः ।

शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 12

उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम् ।

युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 13

विरोचनस्तु सङ्क्रुद्धो गदापाणिरवस्थितः ।

प्रमुखे तस्य सैन्यस्य दीप्तश‍ृङ्ग इवाचलः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 14

युक्तं हयसहस्रेण हयग्रीवस्तु दानवः ।

स्यन्दनं वाहयामास सपत्नानीकमर्दनः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 15

व्यायतं बहुसाहस्रं धनुर्विस्फारयन्महत् ।

वराहः प्रमुखे तस्थौ सावरोह इवाचलः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 16

खरस्तु विक्षरन् दर्पान्नेत्राभ्यां रोषजं जलम् ।

स्फुरद्दन्तौष्ठवदनः सङ्ग्रामं सोऽभ्यकाङ्क्षत ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 17

त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः ।

व्यूहितो दानवैर्व्यूहैः परिचक्राम वीर्यवान् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 18

विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः ।

श्वेतशैलप्रतीकाशो युद्धायाभिमुखः स्थितः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 19

अरिष्टो बलिपुत्रस्तु वरिष्ठोऽद्रिशिलायुधैः ।

युद्धायातिष्ठदायस्तो धराधर इवापरः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 20

किशोरस्त्वतिसंहर्षात् किशोर इव चोदितः ।

अभवद् दैत्यसैन्यस्य मध्ये रविरिवोदितः ॥ १.४३.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 21

लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरभूषणः ।

दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 22

स्वर्भानुर्वक्रयोधी तु दशनौष्ठेक्षणायुधः ।

हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 23

अन्ये हयगता भान्ति नागस्कन्धगताः परे ।

सिंहव्याघ्रगताश्चान्ये वराहर्क्षगताः परे ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 24

केचित् खरोष्ट्रयातारः केचित् तोयदवाहनाः ।

नानापक्षिगताश्चान्ये केचित् पवनवाहनाः ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 25

पत्तयश्चापरे दैत्या भीषणा विकृताननाः ।

एकपादा द्विपादाश्च नर्दन्तो युद्धकाङ्क्षिणः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 26

प्रक्ष्वेडमाना बहवः स्फोटयन्तश्च ते भुजान् ।

दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्गवाः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 27

ते गदापरिघैरुग्रैर्धनुर्व्यायामशालिनः ।

बाहुभिः परिघाकारैस्तर्जयन्ति स्म देवताः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 28

प्रासैः पाशैश्च खड्गैश्च तोमराङ्कुशपट्टिशैः ।

चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 29

गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायुधैः ।

चक्रैश्च दैत्यप्रवराश्चक्रुरानन्दितं बलम् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 43: त्रिचत्वारिंशोऽध्यायः, Verse 30

एवं तद् दानवं सैन्यं सर्वे युद्धबलोत्कटम् ।

देवताभिमुखं तस्थौ मेघानीकमिवोत्थितम् ॥ १.४३.३०॥