Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 1

पृथूपाकायनम् Emergence of pRithu पृथु का उपाख्यान, राज्यवितरण और दिक्पालों की प्रतिष्ठा वैशम्पायन उवाच ।

अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ।

ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 2

द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।

यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 3

अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् ।

बृहस्पतिं तु विश्वेषां ददावाङ्गिरसं पतिम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 4

भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेचयत् ।

आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 5

प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।

दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 6

वैवस्वतं च पितॄणां यमं राज्येऽभ्यषेचयत् ।

मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 7

यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।

नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 8

विप्रचित्तिं तु राजानं दानवानामथादिशत् ।

सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 9

शैलानां हिमवन्तं च नदीनामथ सागरम् ।

गन्धानां मरुतां चैव भूतानामशरीरिणाम् ।

शब्दाकाशवतां चैव वायुं च बलिनां वरम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 10

गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् ।

नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥ १.४.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 11

कारणानां च राजानमैरावतमथादिशत् ।

उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 12

मृगाणामथ शार्दूलं गोवृषं च गवां पतिम् ।

वनस्पतीनां राजानं प्लक्षमेवादिशत् प्रभुम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 13

सागराणां नदीनां च मेघानां वर्षणस्य च ।

आदित्यानामधिपतिं पर्जन्यमभिषिक्तवान् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 14

सर्वेषां दंष्ट्रिणां शेषं राजानमभ्यषेचयत् ।

सरीसृपाणां सर्पाणां राजानं चैव तक्षकम् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 15

गन्धर्वाप्सरसां चैव कामदेवं तथा प्रभुम् ।

ऋतूनामथ मासानां दिवसानां तथैव च ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 16

पक्षाणां च क्षपाणां च मुहूर्ततिथिपर्वणाम् ।

कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 17

गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ।

एवं विभज्य राज्यानि क्रमेण स पितामहः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 18

दिशापालानथ ततः स्थापयामास भारत ।

पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 19

दिशापालं सुधन्वानं राजानं चाभ्यषेचयत् ।

दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 20

पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ।

पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ॥ १.४.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 21

केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ।

तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 22

उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत् ।

तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 23

यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ।

राजसूयाभिषिक्तस्तु पृथुरेभिर्नराधिपैः ।

वेददृष्टेन विधिना राजराज्ये नराधिप ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 24

ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि ।

वैवस्वताय मनवे ब्रह्मा राज्यमथादिशत् ।

तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 25

तवानुकूल्याद् राजेन्द्र यदि शुश्रूषसेऽनघ ।

महद्ध्येतदधिष्ठानं पुराणं परिकीर्तितम् ।

धन्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 26

जनमेजय उवाच ।

विस्तरेण पृथोर्जन्म वैशम्पायन कीर्तय ।

यथा महात्मना तेन दुग्धा चेयं वसुन्धरा ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 27

यथा च पितृभिर्दुग्धा यथा देवैर्यथर्षिभिः ।

यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 28

यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः ।

राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुन्धरा ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 29

तेषां पात्रविशेषांश्च वैशम्पायन कीर्तय ।

वत्सान् क्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 4: पृथूपाख्याने, Verse 30

यस्माच्च कारणात् पाणिर्वेनस्य मथितः पुरा ।

क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥ १.४.३०॥