Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 1

अक्रूरचरितम् Legend of akrUra - legend of syamantaka jewel स्यमन्तकमणिकारणेन प्रसेन, सत्राजित् एवं शतधन्वनोः मृत्युः, बलदेवस्य दुर्योधनाय गदाविद्यायाः शिक्षा, अकूरस्य श्रीकृष्णाय मणिप्रदानम्, श्रीकृष्णस्य पुनः अक्रूराय मणिप्रदानं वैशम्पायन उवाच ।

यत्तत् सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।

अदात् तद्धारयामास बभ्रुर्वै शतधन्वना ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 2

सदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।

अक्रूरोऽन्तरमन्विच्छन् मणिं चैव स्यमन्तकम् ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 3

सत्राजितं ततो हत्वा शतधन्वा महाबलः ।

रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 4

अक्रूरस्तु ततो रत्नमादाय भरतर्षभ ।

समयं कारयाञ्चक्रे नावेद्योऽहं त्वयेत्युत ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 5

वयमभ्युपयास्यामः कृष्णेन त्वामभिद्रुतम् ।

ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयं ५ ॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 6

हते पितरि दुःखार्ता सत्यभामा यशस्विनी ।

प्रययौ रथमारुह्य नगरं वारणावतम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 7

सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः ।

भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 8

पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् ।

कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 9

ततस्त्वरितमागत्य द्वारकां मधुसूदनः ।

पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 10

हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।

स्यमन्तकः स मद्गामी तस्य प्रभुरहं विभो ॥ १.३९.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 11

तदारोह रथं शीघ्रं भोजं हत्वा महाबलम् ।

स्यमन्तको महाबाहो ह्यस्माकं स भविष्यति ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 12

ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः ।

शतधन्वा ततोऽक्रूरमवैक्षत् सर्वतो दिशम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 13

संरब्धौ तावुभौ दृष्ट्वा तत्र भोजजनार्दनौ ।

शक्तोऽपि शाठ्याद्धार्दिक्यमक्रूरो नाभ्यपद्यत ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 14

अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः ।

योजनानां शतं साग्रं हयया प्रत्यपद्यत ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 15

विख्याता हृदया ``नाम शतयोजनगामिनी ।

भोजस्य वडवा राजन् यया कृष्णमयोधयत् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 16

क्षीणां जवन च हयामध्वनः शतयोजने ।

दृष्ट्वा रथस्य ता वृद्धिं शतधन्वा समत्यजत् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 17

ततस्तस्या हयायास्तु श्रमात् खेदाच्च भारत ।

खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 18

तिष्ठस्वेह महाबाहो दृष्टदोषा हया मया ।

पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 19

पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।

मिथिलामभितो राजन् जघान परमास्त्रवित् ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 20

स्यमन्तकं च नापश्यद्धत्वा भोजं महाबलम् ।

निवृत्तं चाब्रवीत् कृष्णं रत्नं देहीति लाङ्गली ॥ १.३९.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 21

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।

धिक्छब्दमसकृत्कृत्वा प्रत्युवाच जनार्दनम् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 22

भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम् ।

कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 23

प्रविवेश ततो रामो मिथिलामरिमर्दनः ।

सर्वकामैरुपहृतैमैथिलेनाभिपूजितः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 24

एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः ।

नानारूपान् क्रतून् सर्वानाजहार निरर्गलान् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 25

दीक्षामयं स कवचं रक्षार्थं प्रविवेश ह ।

स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 26

अथ रत्नानि चाग्र्याणि द्रव्याणि विविधानि च ।

षष्टिं वर्षाणि धर्मात्मा यज्ञेषु विनियोजयत् ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 27

अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः ।

बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 28

अथ दुर्योधनो राजा गत्वा तु मिथिलां प्रभुः ।

गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 29

प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः ।

आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 39: एकोनचत्वारिंशोऽध्यायः, Verse 30

अक्रूरस्त्वन्धकैः सार्धमपायाद् भरतर्षभ ।

हत्वा सत्राजितं सुप्तं सहबन्धुं महाबलम् ॥ १.३९.३०॥