Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः

Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 1

स्यमन्तक कथ Dynasty of bhajamAna - legend of syamantaka jewel भजमानवंशस्य वर्णनम्, स्यमन्तकमणेः कथा वैशम्पायन उवाच ।

भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः ।

राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 2

राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः ।

दत्तातिदत्तबलिनौ शोणाश्वः श्वेतवाहनः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 3

शमी च दण्डशर्मा च दण्डशत्रुश्च शत्रुजित् ।

श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 4

शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।

स्वयम्भोजः स्वयम्भोजाद्धृदीकः सम्बभूव ह ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 5

तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः ।

कृतवर्माग्रजस्तेषां शतधन्वाथ मध्यमः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 6

देवर्षेर्वचनात् तस्य भिषग् वैतरणश्च यः ।

सुदान्तश्च विदान्तश्च कामदा कामदन्तिका ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 7

देववांश्चाभवत् पुत्रो विद्वान् कम्बलबर्हिषः ।

असमौजास्तथा वीरो नासमौजाश्च तावुभौ ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 8

अजातपुत्राय सुतान् प्रददावसमौजसे ।

सुदंष्ट्रं चारुरूपं च कृष्णमित्यन्धकास्त्रयः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 9

एते चान्ये च बहवो अन्धकाः कथितास्तव ।

अन्धकानामिमं वंशं धारयेद् यस्तु नित्यशः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 10

आत्मनो विपुलं वंशं लभते नात्र सशयः ।

गान्धारी चैव माद्री च क्रोष्टुर्भार्ये बभूवतुः ॥ १.३८.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 11

गान्धारी जनयामास अनमित्रं महाबलम् ।

माद्री युधाजितं पुत्रं ततो वै देवमीढुषम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 12

अनमित्रममित्राणां जेतारमपराजितम् ।

अनमित्रसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 13

प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ।

प्रसेनो द्वारवत्यां तु निवसन्त्यां महामणिम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 14

दिव्यं स्यमन्तकं नाम समुद्रादुपलब्धवान् ।

तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 15

स कदाचिन्निशापाये रथेन रथिनां वरः ।

अब्धिकूलमुपस्प्रष्टुमुपस्थातुं ययौ रविम् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 16

तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ।

अस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान् प्रभूः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 17

अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ।

यथैवं व्योम्नि पश्यामि सदा त्वां ज्योतिषाम्पते ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 18

तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ।

को विशेषोऽस्ति मे त्वत्तः सख्येनोपागतस्य वै ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 19

एतच्छ्रुत्वा तु भगवान् मणिरत्नं स्यमन्तकम् ।

स्वकण्ठादवमुच्यैव एकान्ते न्यस्तवान् विभुः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 20

ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ।

प्रीतिमानथ तं दृष्ट्वा मुहूर्तं कृतवान् कथाम् ॥ १.३८.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 21

तमपि प्रस्थितं भूयो विवस्वन्तं स सत्रजित् ।

लोकानुद्भासयस्येतान् येन त्वं सततं प्रभो ।

तदेतन्मणिरत्नं मे भगवन् दातुमर्हसि ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 22

ततः स्यमन्तकमणिं दत्तवांस्तस्य भास्करः ।

स तमाबद्ध्य नगरीं प्रविवेश महीपतिः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 23

तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह ।

पुरीं विस्मापयित्वा च राजा त्वन्तःपुरं ययौ ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 24

तत् प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् ।

ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 25

स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने ।

कालवर्षी च पर्जन्यो न च व्याधिभयं ह्यभूत् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 26

लिप्सां चक्रे प्रसेनात्तु मणिरत्ने स्यमन्तके ।

गोविन्दो न च तल्लेभे शक्तोऽपि न जहार सः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 27

कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः ।

स्यमन्तककृते सिंहाद् वधं प्राप वनेचरात ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 28

अथ सिंहं प्रधावन्तमृक्षराजो महाबलः ।

निहत्य मणिरत्नं तदादाय बिलमाविशत् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 29

ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् ।

प्रार्थनां तां मणेर्बुद्ध्या सर्व एव शशङ्किरे ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 38: अष्टत्रिंशोऽध्यायः, Verse 30

स शङ्क्यमानो धर्मात्मा नकारी तस्य कर्मणः ।

आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥ १.३८.३०॥