Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 1

क्रोष्टुवंशवर्णनम् Dynasty of kroShTu क्रोष्टोः वंशवर्णनम्, पुरोहितगोत्रेण क्षत्रियस्य गोत्रस्य प्रतिस्थापनं वैशम्पायन उवाच ।

क्रोष्टोरेवाभवत् पुत्रो वृजिनीवान्महायशाः ।

वृजिनीवत्सुतश्चापि स्वाहिः स्वाहाकृतां वरः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 2

स्वाहिपुत्रोऽभवद् राजा रुषद्गुर्वदतां वरः ।

महाक्रतुभिरीजे यो विविधैभूरिदक्षिणैः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 3

सुतप्रसूतिमन्विच्छन् रुषद्गुः सोऽग्र्यमात्मजम् ।

जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 4

आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः ।

शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 5

पृथुश्रवाः पृधुयशा राजाऽऽसीच्छशबिन्दुजः ।

शंसन्ति च पुराणज्ञाः पार्थश्रवसमुत्तरम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 6

अनन्तरं सुयज्ञस्तु सुयज्ञतनयोऽभवत् ।

उशतो यज्ञमखिलं स्वधर्ममुशतां वरः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 7

शिनेयुरभवत् सूनुरुशतः शत्रुतापनः ।

मरुत्तस्तस्य तनयो राजर्षिरभवन्नृप ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 8

मरुत्तोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् ।

चचार विपुलं धर्मममर्षात् प्रेत्यभागपि ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 9

सुतप्रसूतिमिच्छन् वै सुतं कम्बलबर्हिषः ।

बभूव रुक्मकवचः शतप्रसवतः सुतः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 10

निहत्य रुक्मकवचः शतं कवचिनां रणे ।

धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम् ॥ १.३६.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 11

जज्ञेऽथ रुक्मकवचात् पराजित् परवीरहा ।

जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजितः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 12

रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः ।

पालितं च हरिं चैव विदेहेभ्यः पिता ददौ ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 13

रुक्मेषुरभवद् राजा पृथुरुक्मस्य संश्रितः ।

ताभ्यां प्रव्राजितो राज्याज्ज्यामघोऽवसदाश्रमे ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 14

प्रशान्तः स वनस्थस्तु ब्राह्मणैश्चावबोधितः ।

जिगाय रथमास्थाय देशमन्यं ध्वजी रथी ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 15

नर्मदाकूलमेकाकी नगरीं मृत्तिकावतीम् ।

ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 16

ज्यामघस्याभवद् भार्या शैब्या बलवती सती ।

अपुत्रोऽपि च राजा स नान्यां भार्यामविन्दत ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 17

तस्यासीद् विजयो युद्धे तत्र कन्यामवाप सः ।

भार्यामुवाच सन्त्रस्तः स्नुषेति स नरेश्वरः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 18

एतच्छ्रुत्वाब्रवीद् देवी कस्य चेयं स्नुषेति वै ।

अब्रवीत् तदुपश्रुत्य ज्यामघो राजसत्तमः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 19

यस्ते जनिष्यते पुत्रस्तस्य भार्योपदानवी ।

उग्रेण तपसा तस्याः कन्यायाः सा व्यजायत ।

पुत्रं विदर्भं सुभगा शैब्या परिणता सती ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 20

राजपुत्र्यां तु विद्वांसौ स्तुषायां क्रथकौशिकौ ।

पश्चाद् विदर्भोऽजनयच्छूरौ रणविशारदौ ॥ १.३६.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 21

लोमपादं तृतीयं तु पुत्रं परमधार्मिकम् ।

लोमपादात्मजो बभ्रुराह्वतिस्तस्य चात्मजः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 22

आह्वतेः कौशिकश्चैव विद्वान् परमधार्मिकः ।

चेदिः पुत्रः कौशिकस्य तस्माच्चैद्या नृपाः स्मृताः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 23

भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् कुन्तेर्धृष्टसुतो जज्ञे रणधृष्टः प्रतापवान् ।

धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 24

आवन्तश्च दशार्हश्च बली विषहरश्च यः ।

दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 25

जीमूतपुत्रो बृहतिस्तस्य भीमरथः सुतः ।

अथ भीमरथस्यासीत् पुत्रो नवरथस्तथा ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 26

तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः ।

तस्मात् करम्भः कारम्भिर्देवरातोऽभवन्नृपः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 27

देवक्षत्रोऽभवत् तस्य दैवक्षत्रिर्महायशाः ।

देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 28

मधूनां वंशकृद् राजा मधुर्मधुरवागपि ।

मधोर्जज्ञेऽथ वैदर्भो पुत्रो मरुवसास्तथा ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 29

आसीन्मरुवसः पुत्रः पुरुद्वान् पुरुषोत्तमः ।

मधुर्जज्ञेऽथ वैदर्भ्यां भद्रवत्यां कुरूद्वहः ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 36: षट्त्रिंशोऽध्यायः, Verse 30

ऐक्ष्वाकी चाभवद्भार्या सत्त्वांस्तस्यामजायत ।

सत्त्वान् सर्वगुणोपेतः सात्त्वतां कीर्तिवर्धनः ॥ १.३६.३०॥