हरिवंशपर्व, अध्याय 33: त्रयस्त्रिंशोऽध्यायः, Verse 1
यदुवंशवर्णनं Yadu dynasty; emergence of kArtavIrya-arjuna यदोःवंशस्य वर्णनम्, कार्तवीर्यस्य उत्पत्तिः चरित्रं च, ययातेः पञ्चानां पुत्राणां वंशवर्णनस्य श्रवणस्य महिमा वैशम्पायन उवाच ।
बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ।
सहस्रदः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा ॥ १॥