Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः

Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 1

नवाहव्रतिभ्यः श्रोताभ्यः पालनीयानि नियमानि, तेभ्यः त्याजनीयानि द्रव्याणां उल्लेखम्, न्यायविरुद्धेन कथाश्रवणीयानां दुर्गतिः, कथायां विघ्नकरणेन एका नार्या नरकयातना एवं राक्षसयोनेः प्राप्तिः, श्रोतॄणां चतुर्दश भेदाः वैशम्पायन उवाच ।

नवाहव्रतिनां पुंसां नियमाञ्छृणु सत्तम ।

एककालाशनश्चैव अधःशायी भवेन्नरः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 2

स्थातव्यं ब्रह्मचर्येण यावद् ग्रन्थः समाप्यते ।

हरिवंशे तथा राजन् पायसं चरुभोजनम् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 3

पारणे पारणे यातं यथावद् भरतर्षभ ।

मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 4

हविष्यान्नेन कर्तव्यमेकवारं कथार्थिना ।

उपोष्य नवरात्रं वा शक्तिश्चेच्छृणुयात्तदा ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 4

इति श्रीपद्मपुराणे हरिवंशमाहात्म्ये श्रवणादिविधिकथनं नाम चतुर्थोऽध्यायः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 5

घृतपानं पयःपानं कृत्वा वा श‍ृणुयात्सुखम् ।

फलाहारेण वा भाव्यमेकभुक्तेन वा पुनः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 6

सुखसाध्यं भवेद् यत्तु कर्तव्यं श्रवणाय तत् ।

भोजनं तु वरं मन्ये कथाश्रवणकारकम् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 7

नोपवासो वरः प्रोक्तो कथाविघ्नकरो यदि ।

श‍ृणुयाद्यः शुचिस्तिष्ठन्नेकचित्ततया सदा ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 8

प्रातःस्नानादिकं कृत्वा पुत्रदारसमन्वितः ।

पुराणश्रवणं कुर्यात् कृष्णपूजनपूर्वकम् ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 9

पुष्पधूपफलैः सम्यङ् नैवेद्यैः श्रद्धयोद्धृतैः ।

गुरोः शुश्रूषणं तेन कर्तव्यं फलकाङ्क्षिणा ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 10

श्रुत्वा यथेच्छया शौचं कार्यं पुण्येन वर्त्मना ।

सायङ्काले गुरुश्रेष्ठं तोषयित्वा सबान्धवः ॥ ४.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 11

स्वपरिग्रहसङ्गेन सुखं स्वपिति वै तदा ।

नियमादि प्रकर्तव्यं पापानां विनिवर्तने ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 12

यथासुखं व्यवहरेन्नित्यं विष्णुपरायणः ।

शुचिःशुद्धमनास्तिष्ठन् पत्रावल्यां च भोजनम् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 13

कथासमाप्तौ भुक्तिं च कुर्यान्नित्यं कथाव्रती ।

द्विदलं मधु तैलं च गरिष्ठान्नं तथैव च ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 14

भावदुष्टं पर्युषितं जह्यान्नित्यं कथाव्रती ।

वृन्ताकं च कलिङ्गं च दग्धमन्नं मसूरिकाम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 15

निष्पावानामिषाद्यं च वर्जयेच्च कथाव्रती ।

पलाण्डुं लशुनं हिङ्गुं मूलकं गृञ्जनं तथा ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 16

नालिकामूलकूष्माण्डं नैवाद्याच्च कथाव्रती ।

कामं क्रोधं मदं मानं मत्सरं लोभमेव च ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 17

दम्भं मोहं तथा द्वेषं दूरयेच्च कथाव्रती ।

वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 18

स्त्रीराजमहतां निन्दां वर्जयेच्च कथाव्रती ।

रजस्वलान्त्यजम्लेच्छपतितव्रात्यकैः सह ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 19

द्विजद्विड्वेदबाह्यैश्च न वदेच्च कथाव्रती ।

सत्यं शौचं दया मौनमार्जवं विनयं तथा ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 20

उदारं मानसं तद्वत् कुर्यादेव कथाव्रती ।

श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसा ॥ ४.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 21

वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ।

अभक्त्या ये कथां पुण्यां श‍ृण्वन्ति मनुजाधमाः ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 22

तेषां पुण्यफलं नास्ति दुःखं स्याज्जन्मजन्मनि ।

पुराणं ये तु सम्पूज्य ताम्बूलाद्यैरुपायनैः ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 23

श‍ृण्वन्ति च कथां भक्त्या दरिद्राः स्युर्न पापिनः ।

कथायां कीर्त्यमानायां ये गच्छन्त्यन्यतो नराः ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 24

भोगान्तरे प्रणश्यन्ति तेषां दाराश्च सम्पदः ।

सोष्णीषमस्तका ये च कथां श‍ृण्वन्ति पावनीम् ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 25

ते बलाका प्रजायन्ते पापिनो मनुजाधमाः ।

ताम्बूलं भक्षयन्तो ये कथां श‍ृण्वन्ति पावनीम् ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 26

स्वविष्ठां खादयन्त्येतान्नरके यमकिङ्कराः ।

नार्या रजस्वलायाश्च योनितुल्यं मुखं भवेत् ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 27

ये तुङ्गासनारूढाः कथां श‍ृण्वन्ति दाम्भिकाः ।

अक्षय्यान्नरकान् भुक्त्वा ते भवन्त्येव वायसाः ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 28

ये च वीरासनारूढा ये च शय्यासनस्थिताः ।

श‍ृण्वन्ति तत्कथां ते वै भवन्त्यर्जुनपादपाः ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: चतुर्थोऽध्यायः, Verse 29

असम्प्रणम्य श‍ृण्वन्तो विषवृक्षा भवन्ति ते ।

तथा शयानाः श‍ृण्वन्तो भवन्त्यजगरा नराः ॥ २९॥